________________
उपदेशपदः एव सन ब्रवीति भण त्वं केन वस्तुना कार्य प्रयोजनमिति ॥६२७ । २०॥ पानकद्रव्यम, इति प्राग्वत् तत्र संग्रहमहाग्रंथः सन्निवेशे यन्नास्ति द्राक्षापानकादि, ब्रवीति तेन कार्यम् । इतिः पूर्ववत् । ततो निर्गत उपाश्रयाद नन्दिषेणः
गाथार्थ:पानकगवेषणार्थम् । तत्र च हिण्डमाने तृष्णाबुभुक्षाक्षामकुक्षौ करोत्यनेषणां पानकाशुद्धिलक्षणां स देवः । नापि च नैव
प्रेरयति स साधुस्तम् ।।६२८।।२१।। इत्येवमेकवारां द्वितीयां च वारामुपदिष्टपानकार्थं हिण्डितस्तत्र सन्निवेशे । न च । ५७२।। || लब्धं तत् । 'लद्ध'त्ति लब्धं च तृतीयवारे । वारशब्दस्येह पुल्लिंगत्वादेवं निर्देशः । ततो 'अणुकंपत्ति अनुकम्पया दयया र
त्वरमाणो गतश्च स नन्दिषेणसाधुस्तत्सकाशं तस्वैव समीपं पुनरिति ॥६२९।।२२।। गतं सन्तं तं खरपरुषनिष्ठरैक्यिराक्रोशति शपते स ग्लानको ग्लान एवानुकम्पनीयतां गतो रुष्टो दर्शितभ्रकुटीमङ्गादिकापविकारः । कथमित्याह-हे मन्दभाग्य तुच्छीभूतपुण्यस्कन्ध ! फूत्कृत अत्यन्तासारतया तुषादिवत्फूत्कारयोग्य ! तुष्यसि सन्तुष्टो भवसि त्वं नाम
मात्रेण नाम्नव केवलेन वैयावृत्त्यकरोऽहमित्येवंरूपेण ॥६३०॥२३॥ 'साहुवगारित्ति अहं नामड्डो' इति साधूपकार्यहPoमित्येवंरूपनाम्नाऽऽढयः, तथा समुद्दिश्य भोजनं कृत्वा आगत इति, एतस्यां भवतैवावलोक्यमानायामवस्थायां त्वमास्ते
भक्तलोभवान् सन्निति ।।६३१।।२४।। अमृतमिव पीयूषमिव मन्यमानस्तां परुषां गिरं तु परुषामपि गिरं "जो सहइ ॥५७२॥
उ गामकंटए अकोसवहारतज्जणाउ य । भयभेरवसहसप्पहासे समसुहदुक्खसहे. य जे स भिक्खू" इत्यादिसूत्रवासितान्त:४ करणत्वात् स नन्दिषेणः ससंभ्रातः ससंभ्रमः सन् चलनगतः क्षमयति, यथा-क्षमस्व ममैकमपराधं न पुनरेवं करिष्ये,
धावति च तं साधुं स्वमललिप्तं .स्वकोयविष्ठामूत्रलक्षणमलोपदिग्धमिति ॥६३२।२५।। बभाण चोत्तिष्ठत यूयमितः