________________
॥५७१॥
पूर्वभवविहितानां दुष्कृतानामुदग्रं तपो विना नान्यो विनाशहेतुः समस्तीति मन्यमानो जातः षष्ठक्षमकः । षष्ठं नाम षष्ठभक्तं तपः । तच किल भक्तपञ्चकपरिहारेण षष्ठं भक्तमुपादेयतया यत्र तपसीत्यन्वर्थप्रधानतया उपवासद्वयं तत् क्षमते सहते यः तथा । तथा, स्वसामर्थ्यालोचनेन गृह्णाति चाभिग्रहमिमं तु वक्ष्यमाणं पुनः ।। ६२३ ।। १६ ।। तमेव दर्शयति ; - बाल ग्लानादीनां शिशुस रोगवृद्धप्रांघूर्णकाचार्योपाध्यायतपस्विशैक्षादिभेदभाजां साधूनां वैयावृत्त्यमन्नपानदानाद्य पष्टम्भलक्षणं मया तु मयैव केवलेन कर्त्तव्यं, न पुनरन्यः कश्चिदिच्छाकारविषयः कर्त्तव्यः केनापीति । एवं गृहीताभिर हो निधिलाभादपि समधिकं सन्तोषमुद्वहं स्तमभिग्रहं करोति तीव्रश्रद्धः समुद्घटितातितीव्राभिलाषः । जातश्चतुर्वर्णश्रीश्रमणसंघमध्ये ख्यातयशाः समुत्पन्नश्लोकः तदा तस्य शक्रगुणोत्कीत्तिः शक्रेण सौधर्मप्रभुणा गुणानां वैयावृत्त्यादीनां कीर्त्तनमकरोति || ६२४ ।। १७ ।। ततोऽश्रद्दधानस्य शक्रकृतगुणोत्कीर्त्तनं कस्यचिद्देवस्येहागमोडवतरणलक्षणो जज्ञे । स च करोति द्वे श्रमणरूपे । तयोरेको ग्लानः सन् अटव्यां तिष्ठतीति विकुर्व्यातिगतो यत्रासौ नन्दिषेणः साधुस्तत्राश्रये प्रविष्टो द्वितीयः साधुः ।। ६२५ ।। १८ ।। ब्रवीति स उपाश्रयागतेः - ग्लानः पतितोऽटव्यामेकः साधुः समस्ति । वैयावृत्त्यं तूक्तलक्षणं श्रद्धत्ते रुचिविषयीकरोति यस्तु कश्चित्, तुशब्दौ पादपूरणार्थी, स उत्तिष्ठतु उद्यमं करोतु क्षिप्रमिदानी - मेव । श्रुतं च तद्वचनं नन्दिषेणेन मुनिना ।। ६२६ ।। १९ ।। कीदृशेनेत्याह -- षष्ठोपवास उक्तलक्षणः, पायंते तीरं नयते येन स तथा तमानीतं स्वयमेव सर्वसम्पत्करी भिक्षाविशेषलब्धं कवलं ग्रासरूपं विभक्तिलोपः प्राकृतत्वात प्रथमत एव ग्रहीतुकामेन । तद्देववचो यदा श्रुतमात्रं श्रुतिपथावतारि सम्पन्नम्, तदा रभसेोत्थितश्च रभसादुत्थित
।।५७१।।