SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उपदेशपद महाग्रंथ ॥५७० ॥ गर्भेऽवतीर्णस्य षष्ठे मासे पिता मृत इत्यर्थः । 'धिज्जाइणि'त्ति जननी जाते उदरान्निर्गते तत्र गर्भे मृतेति ।। ६१९ ।। १२ ।। ततो मातुलेन प्रतीतरूपेण संवर्द्धनं वृद्धिमानीतोऽसौ प्रतिष्ठितनन्दिषेणनामा । तत्रैव मातुलगृहे 'कम्मकरण 'त्ति कुषिपाशुपात्यादिकर्म कर्त्तुमारब्धः । निश्चितस्तस्य संवृत्तो मातुलः । एवं व्रजति काले वितारणा च विप्रतारणा - र्लोकेन परव्यसनसुस्थितेन कर्त्तुमारब्धा तस्य । कथमित्याह - नास्ति न विद्यते तवात्र गृहे दूरं वृद्धि गतेऽपि कविभाव्यम् | गृहकर्मसु मन्दादरे जाते ब्रवीति प्रतिपादयति मातुलो लब्धवृत्तान्तस्तमिह ग्रामे स्वभावत एव परगृहततिकारके उच्छृंखलमुखे ।। ६२० ।। १३ ।। मा श्रृणु लोकस्य वचनानि त्वं, परगृहभञ्जनप्रियत्वाल्लोकस्य । यतो दुहितरस्तिस्रः सन्ति मम गृहे । तासां या ज्येष्ठतरा सर्वज्येष्ठा तां प्राप्तयौवनां तव दास्यामि । एवं मातुलेनोक्तः 'करे'त्ति कर्तुं कर्म प्रकृतः प्रवृत्तवान् । कालेन प्राप्तश्च विवाह इति ।।६२१|| १४ || सा ज्येष्ठा दुहिता तत्र विवाहे पित्रा समुपस्थापिते तं नन्दिषेणं तुच्छौपृच्छदमुखतया समुद्घाटदशनं चिपिटनाशिक मतिगभीरनेत्ररन्ध्रममनोहरस्वरमतिलम्बोदरसंक्षिप्तवक्षः प्रदेशं विकटपादपातमलिगवलव्यालकालकायं साक्षादपुण्यराशिमिव निभालय नेच्छति परिणेतुम् ; भणितवती च यदि मामनेन परिणाययिष्यथ तदा नूनं मया मर्त्तव्यमिति । ततोऽसौ विखिन्नो मन्दादरश्च गृहकर्मसु संवृत्तः । मातुलो ब्रवीति-यदि नामानया दुहित्रा नाभिलषितस्त्वं तथापि द्वितीयां दुहितरं दास्यामि । सापि च दुहिता तथैव प्रथमदुहितृवत् तं नेच्छति । 'तइयत्ती' इति, अतस्तृतीया प्रतिपन्ना, इत्येवं प्रथमदुहितृद्वयवत् सापि नेच्छति तृतीया ।।६२२ ।। १५ ।। ततो निर्विण्णोऽसौ गृहवासाद् नन्दिवर्द्ध नाचार्याणां सकाशे निष्क्रान्तः प्रतिपन्नव्रतः सम्पन्नः । ततोऽसौ संग्रहगाथार्थ: ।।५७० ॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy