SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ॥६१६।।९।। सैन्यं-'कह सत्ति मिय णु'त्ति कथं शक्तिः सामर्थ्यरूपा, मकारोऽलाक्षणिकः । इयं तव, नुम्वितर्के ततो | वितर्यतेऽस्माभिः कथञ्चित्तव शक्तिरुत्पन्ना यथा यदस्माभिः करिष्ये तत् सहिष्यत इति ? मुनिः--शक्तिमच्छासनात् सकलत्रलोक्यसमर्गलसामर्थ्यस्य पुरुषविशेषस्य शिक्षणात् । सैन्यं-को नु को नामेष शक्तिमान् पुरुषविशेष ? मुनिः-- सर्वज्ञः सर्वमतीतानागतादिभेदभिन्नं वस्तु जानाति हस्ततलन्यस्तनिस्तलस्थूलमुक्ताफ़लमिवानवरतमाकलयते यः सकलसुरासुरनरवृन्दवन्द्यपादारविन्दो भगवानहन्निति । ततः ससन्तोषं सैन्यलोकेन विसृष्टो मुनिः स्वस्थानं ययौ। एवमादि नगराभिप्रायप्रकटनाद्यनुचितं साधुजनायोग्यं सदा सर्वकालं भाषासमितः सन् न भाषते, किन्तु यथा तेन संगतसाधुना भाषितं तथा भाषेतेति ।।६१७॥१०॥ ... अथैषणासमितावुदाहरणमाह ;-वसुदेवः--सहजनिजसौभाग्यवशभग्नसुभगंमन्यमनुजाभिमानो, दशमदशाहः, अन्धकवृष्णिताममहाराजाङ्गजः, तत्कालहरिवंशप्रसूतिपितामहीभूतः, वासुदेवपिता, पूर्वजन्मन्याहरममेषणायामेषणानामिकायां समितौ। तदेव दर्शयति;--'मगह'त्ति मगधविषये नन्दिग्रामे गौतमो नाम धिगजातिर्ब्राह्मणः, चक्रचरः कुलालचक्रवद् यो भिक्षार्थी सन् ग्रामादौ चरति स चक्रचरो भिक्षाचर इत्यर्थः, समभूत् ॥६१८॥११॥ तस्य च गौतमचक्रचरस्य धारणी नाम भार्या आसीत् । एवं कुटुंबधर्मे प्रवर्त्तमाने कियति कालेऽतिक्रान्ते सति गर्भस्तस्या धारण्याः कुतोऽपि | गत्यन्तरादभूत् समुद्भूतः । स च स्वभावादनुपचितसमीहितसिद्धिहेतुपुण्यस्कन्धो वर्तते । अत एव धिगजातिगौतमनामा मृतः परामुतामापन्नः । क्वेत्याह-'छम्मासे गन्भ'त्ति षण्मासगर्भे षड् मासा यस्य स तथा तस्मिन् गर्भे सति--तस्य ५६९।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy