SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ संग्रहगाथार्थ: उपदेशपदः बन्धपरिहारार्थ बहिः शत्रुराजसैन्ये भिक्षार्थं निर्गमनं कृतवान् । ततः पृच्छा सैन्यलोकेन कृता-कुतो भवन्त इहागताः? महानथः मुनिः प्राह-नगरात् । संन्यलोकः प्राह-कोऽभिप्राय एतन्नगरप्रभाः-किमरमाभिः सह संघटिष्यते नवेति? मुनिः प्राह नापि च जाने नैवाहं जानामि कोऽपि कस्मिन्नभिप्राये वर्त्तत इति ॥६१३।।६।। सैन्यं-तत्र नगरे वसतां भवतां कथ मभिप्रायपरिज्ञानं न संजातमिति ? मुनि:-अव्यापारास्तु लोकव्यापाररहिता एव साधवो वर्तन्त इति । सैन्यं-यद्य1५६८। भिप्रायो न ज्ञायते तर्हि किमिह पुरमध्ये जना जल्पन्ति सन्धिविग्रहयोविषये ? मुनिः-अत्रापि · जल्पविषयेऽव्यापारो ऽहम् । सैन्यं-कि साधनमानं हस्त्यश्वादिसंग्रामाङ्गपरिमाणम् ? मुनि:-अशापि च साधनमानपरिज्ञानेऽव्यापारोऽहमिति ॥६१४।।७।। मुनिरेवाह-श्रूयते कर्णाभ्यां, दृश्यते लोचनाभ्यां किञ्चिच्छब्दरूपलक्षणं वस्तु, शब्दरूपयोर्ग्रहणस्वभावत्वात् तेषां, परं सर्व साध्यते कथ्यते न सावद्य सपापम्, किन्तु कार्ये समुत्पन्ने निरवद्यमेव; सावद्य' सवं यद्भवद्भिः पृच्छयत इति । अत्र एव पठन्ति-"बहुं सुणेइ कणेहिं बहुं अच्छीहिं पेच्छए । न य दिटुं सुर्य वावि भिक्खू अक्खाउमरिहइ ॥१॥" सैन्यं यद्यवं नियापारा यूयं, किं तहि वसथात्र? मुनिः--ग्लानः साधुरस्मदीयः समस्ति । सैन्यं-किमिह सैन्येऽस्मदीयेऽटथ ? अप्रतिबन्धात् क्वचिदप्येकत्र ग्रामकुलनगरादावसंगमात् ।। ६१५ ॥८॥ सैन्यंचारिका हेरिका यूयम् । मुनिः-नैव चारिकाः किन्तु श्रमणा वयम् । सैन्यं-को जानाति कीदृशा यूयम् ? मुनिःआत्मसाक्षिकः, आत्मा साक्षी यत्रेति समासः स धर्मः, मात्र वस्तुन्यन्यस्य कस्यापि साक्षित्वमस्तीत्येवमुपन्यासः । सैन्य-न हु नैवेत्थमुत्तरप्रदानेन छुटयते मुच्यतेऽस्मत्सकाशात् । मुनिः-तहि यजानीथ तत् कुरुध्वम् । इति प्राग्वत् ६५ ॥५६८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy