SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ क्षेपणातनयोरत्यन्ताव्यवधानेन भावात समकमित्युक्तम् ॥६१०॥३॥ व्यवच्छेद्यमाह--न तु नव भावस्येर्यासमितिपरिणतिरूपस्येषदपि ह पातनमजायत । कुतः । यतो मिथ्यादुष्कृतं मे समस्तु इत्युक्तं तेन, जीवानां मक्षिकामण्डकिकालक्षणानां पीडा बाधा वर्तत इति कृत्वा; अपि च, उत्थानं संवृत्तगाणवमीर्यासमितिप्रधानतया तेन कतम । तत आभोगे तद्धावोपलम्भे कृते देवतोष एवं जातः, न पुनरुदासीनतादिभावान्तर भाव इति ॥६११॥४।। तदनन्तरं ॥५६७॥ संहरणं मक्षिकामण्डुकिकानां गजस्य च देवेन विहितम् । रूपदर्शनं चलत्कुण्डलस्योरःस्थलविसारिस्फारहारस्य बहलकिरणजालविलुप्ततमःपटलविकटमुकुटस्य निजरूपस्य दर्शनमकारि । ततो वरदानं वरं वृण्वित्येवंलक्षणमुपस्थापितम । अनिच्छा निःस्पृहता वरदत्तसाधुना त्यक्तसंग इति कृत्वा । ततो देवो भक्तिभरस्तचरणकमलमभिवन्द्य सम्पन्नसन्तोषः स्वस्थानं जगाम । वरदत्तसाधूनापि ततो गमनं पूर्वप्रवृत्तविचारपथे एवालोकनं च जीवानां कृतम् । अविस्मयश्च 'साक्षादेव देवो न मया दृष्ट' एवंरूपस्य विस्मयस्याकरणम् । योगान्तरसंप्रवृत्तिश्च विचारगमनापेक्षया यद्योगान्तरं स्वाध्यायध्यानादिलक्षणं तत्र सम्यक् प्रवर्त्तनं च जातमिति ॥६१२॥५॥ ___अथ द्वितीयसमित्युदाहरणमाह;-किल क्वचिन्नगरे संगतनामा साधुनिखिलसाधुसामाचारीकरणपरायणः। तथा KI "जा य सच्चा अवोत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धहिं णाइण्णा ण तं भासेज्ज पण्णवं" ॥१॥" TRA एवंरूपायां वाक्यशुद्धौ स्वभावत एवोपयुक्तः समवतिष्ठत । स चान्यदा कारणिको ग्लानप्रतिजागरणकारणवान् रोधके सर्वतो नगरनिरोधलक्षणे कृते 'भिक्खनिग्गमण'त्ति नगर एव मध्ये पुष्कलायां भिक्षायां लभ्यमानायामपि प्रति ॥५६७।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy