________________
॥५६१॥
रक्षाकरो वर्त्तते । गुप्तः समितत्वे भजनीयो विकल्पनीयः । अत्र हेतुमाह- कुशलवाचं कुशलमधुरत्वादिगुणविशेषणां वाचं गिरमुदीरयन्नुद्गिरन् सन् यद्यस्मात् 'वइत्ति वाचा गुप्तोऽपि समितोऽपि स्यात् । अनेन च समितो नियमाद् गुप्त इत्येतद् भावितं, गुप्तस्तु मानसध्यानाद्यवस्थासु प्रवीचाररूपकायचेष्टावि रहेऽपि गुप्तः स्यादेव ॥ ६०५ ।।
एताश्च यथा शुद्धाः स्युस्तथा चाह; --
पुव्वि सरूव पच्छा वाघायविवज्जयाओ एयाओ। कज्जे उवउत्तस्साणंतरजागे य सुद्धाउ ॥ ६०६॥
पूर्वं गुप्तिसमिति प्रयोगकालात् 'सरूव'त्ति पर्दैकदेशेऽपि पदसमुदायोपचारात् स्वरूपावगमे सत्यासां पश्चात् प्रयोगकाले व्याघातादिविवर्जिता धर्मकथादिव्यापारान्तरविकला एता गुप्तिसमितयः शुद्धा भवन्तीत्युत्तरेण योगः । कीदृशस्य साधोरित्याह-कार्ये ज्ञानादावुपस्थिते एवोपयुक्तस्य सर्वात्मना सामीप्येनात्मनोऽनन्तरयोगेऽपि ततोऽपि कार्यादव्यवहित एव कार्यविशेषे, उपयुक्तस्येति योज्यते, शुद्धा निर्मला भवन्ति । इदमुक्तं भवति - प्रथमत आसां स्वरूपे प्रवीचारादिलक्षणे ज्ञाते, ततः प्रयोगकाले व्यापारान्तरपरिहारेण व्याघातवर्जने सति, सर्वात्मनोपयुक्तस्यानन्तरयोगे च तथारूप एव चिकीर्षिते, एताः शुद्धि प्रतिपद्यन्ते, हेतुस्वरूपानुबन्धानां विशुद्धिभावात् । अत्र स्वरूपावगमो हेतुः । व्याघातवजिता कार्ये प्रवृत्तिः स्वरूपम् । अनन्तरयोगश्चानुबन्ध इति ।।६०६ ।।
अथ तासामाहरणानि बिभणिषुराह; -
एयासि आहरणा निट्ठिा एत्थ पुव्वसूरीहि । वरदत्तसाहुमादी समासता ते पवक्खामि ||६०७।।
।।५६१॥