SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ॥५५९॥ धर्मकथा सामान्येन जाता। प्रच्छनं विशेषेण केषाञ्चिदर्थानां तैः कृतम् । कथनं गणिन्या एवं च वक्ष्यमाणनीत्या ॥५९७॥४८॥ को धम्मो जीवदया, किं सोक्खमरोम्गया उ जीवस्स । को हो सब्भावो, कि पंडिच्च परिच्छेओ ॥५९८॥ कि विसमं कज्जगती, कि लद्धं जं जणो गुणग्गाही । कि सुहगेज्मं सुबणो, कि दुग्गेज्झ खलो लोओ ॥५९९॥ एमादि पुच्छवागरणतो तहा भद्दयाणि जायाणि । जइ तीए धम्मविग्धं पायं सुविणेऽवि ण करेंति ॥६००। इदं च महता प्रबन्धेन व्याख्यातत्वात् सुगमत्वाचन व्याख्यायते । एवमादीनि प्राग गाथाग्रन्थोक्तानि यानि पृच्छाव्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविघ्नं प्रायः स्वप्नेऽपि न कुर्वन्तीति ।।५९८॥५९९॥६००॥ इत्थं श्रीमतीसेामोदाहरणमभिधाय प्रस्तुते योजनामाहगुणठाणपरिणामे संते जीवाण सयलकल्लाणा । इय मग्गयामिभावा परिणामसुहावहा होंति ६०१॥ गणस्थानकपरिणामे उक्तलक्षणे सति जीवानां सकलकल्याणानि, इत्येवं मार्गानुगामिभावात् शुद्धनीतिपथानुसरणलक्षणात्, परिणामसुखावहानि परंपरया सुखानुबन्धप्रधानानि भवन्ति । गुणस्थानकपरिणामवन्तो हि जीवा नियमाद् मार्गमेवानुसरन्ति, उन्मार्गानुसरणकारिणो मिथ्यात्वादे: कर्मक्षयेणैव गुणस्थानकपरिणामसंभवात् । ततः सकलकल्याणलाभः सम्पद्यत इति ॥६०१।। अथ महाव्रतान्यधिकृत्याह;गुणठाणगपरिणामे महब्वए तु अहिगिच्च णायाइं। समिईगुत्तिगयाइं एयाइं हवंति ताइं॥६०२॥ गुणस्थानकपरिणामे उक्तलक्षणे सति महाव्रतानि, तुः पुनरर्थे, अधिकृत्याश्रित्य ज्ञातान्युदाहरणानि समितिगुप्तिग ||५५९।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy