SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उपदेशपद: संग्रहगागाथार्थ: महाग्रंथः 1५५६ । दुहितुनिर्वेदनमित्यर्थः । हा किमेतदिति बोल: कोलाहलो जातः ॥५७७॥२८॥ लोकमिलने वचनं प्रवृत्तं त्वयापि कि न एषा वधूर्मातृघातिका घातिता? साऽऽह-हिसाया निवृत्ताऽहम् भणितं च जनेन एतदनिवृत्तिहिंसाया अविरमणमहो पापेति ।।५७८।२९।। तया सोमया भणितौ च गुरू मयाप्येकं तावद् व्रतमिदं हिंसानिवृत्तिरूपं गृहितं वर्तते, तकि मोक्तव्यमिदमिति पृष्टे तावाहतुः-न नैव मोक्तव्यम्-आस्तामिदं व्रतमिति ॥५७९॥३०॥ एवं यथा पथि गच्छद्भ्यां गुरुभ्यां कुटुम्बमारी दृष्टा; तथा, विनष्टवहनः कश्चिन्नौवित्तको द्वीपान्तरे मन्दः सन् भृतकेन कर्मकरेण सुष्ठु सावरं प्रतिजागरितः, तुष्टश्चासौ तं प्रति दुहितृदाता वणिक् सम्पन्नः, स च भृतकेनोक्तः-विवादे कथंचित्प्रवृत्ते जीवकाः पक्षिविशेषाः, ते चाभिज्ञाश्च साक्षिणः, तेभ्यो विज्ञेयो भवान् मिथ्याभाषी व्यवहारे इति ।।५८०॥३१।। गृहागतश्च महेलादिवशाद् विलोट्टो दुहितृदानं प्रति सः । ततो विवादो जातः । भृतकेन राज्ञः शिष्टो निवेदितो दुहितृदानव्यवहारः । इति प्राग्वत् । तथा, देव ! पक्षिणः साक्षिणो वर्तन्ते, इति पक्षिसाक्ष्ये प्रतिपादिते नृपानुज्ञातेन तेन गत्वा ते आनीताः। विस्मयश्च राज्ञः संवृत्तः। ततः 'विरलं'ति संनिहितजनापसारणे कृते । ततः पृच्छा च प्रवृत्ता, यथा॥५८१॥३२।। कुत्र साक्ष्यमेषाम् । ततश्छगणे गोमये कृमिदर्शनेन-चञ्चप्रान्तभागेन कृमीणां कीटकानां भोजनार्थ निक्षितानां दर्शनमन्येषां परिपाश्वतोऽवस्थितानां स्वत एव क्रियमाणं पश्यतां प्रयोजनं तेन तैः साक्ष्यं कृतम् । कथमित्याहईदृशैः कर्मभिरलीकभाषणरूपरेवंरूपगोमय भक्षकभूयत इति । ततो धाटितश्चासौ धिक्कारहतश्चेति धाटितधिक्कारहतो दृष्टः सोमाजनकलोकेन । ततो द्वितीयेऽपि च व्रते मुच्यमाने निषेधः कृतः ।।५८२॥३३॥ एवमेव तिलस्तेनः नानाः कथमपि ॥५५६।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy