________________
।।५५५॥
ग्रहीत्वस्थानीयं स्वाभिप्रायस्य ज्ञानं लोके स्वप्रकाशनं, रत्नस्थानीयो धर्म इति ॥५६९।।२०।। ईदृशानां गोबरवणिकसहशानां धर्मो दातव्यः परिहितोद्यतेन गुरुणा । इह जगत्यात्मभरित्वमितरथा ईदृशानामप्यदाने । यदि नामैवं ततः किमित्याह-तदात्मभरित्वमनुचितमीश्वराणामिव ।।५७०॥२१॥
एवं लब्धतदभिप्रायया श्रीमत्या नीता वतिनीसमीपं साध्वीसकाशम् । कमित्याह-प्रतिश्रयं वसतिम् । कमित्याह साधयित्वा वृत्तान्तं न कल्पते मम व्रतदानं कत्तुं, किन्तु प्रवत्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता प्रवत्तिन्या महत्तरया यथाविधि उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥५७१।।२२।। दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा सोमाया: परिणतश्चैव ॥५७२।२३।। ततो विधिनाऽणुव्रतग्रहणं पालनमनुवर्त्तनं तस्य ततोऽप्रीतिकं गुरुजनस्य । भणितं च तेन छर्दय मुञ्च इमं धर्मम् । तयोक्तं-गुरुमूले. मोक्तव्यः। ततस्तेषां तत्र गुरुमूले नयनमारब्धम् ।।५७३॥२४॥ कुशलया सोमया चिन्तितमिदं, यथा-संमुखवचनं प्रत्युत्तरदानरूपं गुरूणां मातापित्रादिनां नो नैव युक्तम् । तथा च तत्र प्रवर्तिनीदर्शने तेषामपि गुरूणां बोधिर्भविष्यति ॥ ५७४ ॥२५।। गच्छद्भिश्च तैदृष्टं वणिग्गृहे वैशसमसमंजसं महाघोरम् । किं तदित्याह-हिंसानिवृत्तेविजृम्भितं कुलविनाशकरम् ।।५७५॥२६॥ दुःशीला- ॥५५५।। ऽगारी गृहस्था। सा च भृतके लग्ना । तया च सुतघातनं त्वया विधेयमिति तेन सह संगारः संकेतः कृतः । I ततःप्रेषणं ग्रामे तयार्योगपद्य न कृतम्। सूतेन तद्धातनम् । ततः केवलागमनं केवलस्यैव सुतस्य गृहागमनमजनीति
५७६ ॥२७ ।। तयाप्यगार्या तस्य वधनं घातः कृतः शिलया प्रतीतरूपया, वध्वा तस्या असिकेन। चुल्लीपुत्रकेण