________________
संग्रहगा
IXI थार्थ:
उपदेशपदः, अप्पाहियमेव दर्शयति-अभेद्य मंजूषादौ स्थाने ॥५६२।१३।। या ताम्रककरण्डी तस्यां पट्टक: समस्ति । तत्र च गोत-
मद्वीपविशेष एव 'कजवोज्झना' उत्कुरुटिकाकचवरप्रोपः कार्यः। तत्र कृते रत्नतृणचारिगोदर्शनं भविष्यति । ततो गोबरे तासां गवां छगणे रत्नानि भविष्यन्तीति लिखितमास्ते ॥५६३।।१४।। ततो ज्ञात्वेदं पट्टकलिखितं वस्तु पश्चा
नगर्यामेवमाह सर्वत्र त्रिकचतुष्कादौ । यदाह तदेव दर्शयति-बुद्धिरस्ति, नास्ति विभवः । ग्रहोऽस्य च वर्त्तते इति||५५४॥ कृत्वाऽवधीरितो लोकेन । राज्ञा श्रुतमेतदस्य व्याहरणम् ॥५६४।।१५।। शब्दयित्वा भणितो गृह्णीत विभवमिति ।
लक्षग्रहणं तु ततस्तेन दोनारलक्षग्रहणं च कृतम् ततः 'तद्दीवन्नूनिजामग'त्ति गौतमद्वीपज्ञनिर्यामको गृहीतः । वहनभरणं कचवरस्य विहितम् ॥५६५।।१६।। एवं च विहिते हसति लोकः अहो? ग्रहगृहीतव्यवहारः । गमनं तत्र द्वीपे । तथा कजवोज्झनं चव । तत्र विहिते गोदर्शनं गोमयभरणं वहनानामत्यर्थमिति ॥५६६।१७॥ आगमनं निजनगरे । ततो राजदर्शनम् । आनितम् त्वया द्वीपान्तरात् किमिति राजप्रश्ने गोबरो देव ! आनीत इत्युत्तरं दत्तम् । राजा प्राह-उच्छुल्कं तव भाण्डम् । प्रसाद इति तेन भणिते हसनं लोकस्य । प्रवेशना ततः स्वगृहे भाण्डस्य । ५६७॥१८॥ समये चाग्निज्वालनं गोमयपिण्डानाम् । ततो रत्नानि व्यक्तीभूतानि । अतश्च विक्रयेण रत्नानां परिभोगोऽन्नादिगोचरः समजनि। एवं च लोकपूज्यत्वं तथा लीकोपहासावधीरणेन यो निश्चयः कार्यगतस्तस्मात्प्राप्तमेतेन भव्यसत्त्वेन कल्याणयोग्यजीवेनेति ।।५६८॥१९॥ पट्टकसदृशी आज्ञा, एवमादोहापि धर्मविषये योजनीयमेव निःशेषं निजबुद्धया ज्ञायकेन सता यथाविषयं यथायोगमिति । तथाहि-पट्टकसदृशी आज्ञा, पितृस्थानीयो गुरुः, उपहासस्थानीया अन्यजनवादाः,
द
॥५५४।।