SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ गतमदाहरणं सर्वमशेषं निजबुद्धया। · कथमित्याह-अशुभशुभफलत्वादिति अशुभशुभफलत्वेन, आदिशब्दात्पुनर्दलंभत्वादुर्लभस्वाभ्यामिति । इदमुक्तं भवति-यादृशो धनपुत्रस्तादृशोऽयं गुणदरिद्रः संसारी जीवः । यथा च पत्नीवचनोत्साहाज्झंटणलाभार्थं श्वरशरकुलमसौ जगाम, लब्धाश्च तं तत्र, एवं मोहनीयक्षयोपशमात् श्वशुरकुलतुल्यं गुरुकुलं झटणतुल्यं धर्म लब्धं कश्चिद् गच्छति, लभते च तं तत्र । यथाऽसौ तश्शाशिक्षितोऽपि मन्दभाग्यतया लोकापहासभयादन्त-18 राल एव स्वशरीराद् उत्संघट्टीकृत्य मुमोच, तथायमपि दीर्घसंसारितया लब्धमपि धर्म तथाविधलोकाविज्ञातभावभयादकृतकार्यमेव समुज्झति । यथाऽसौ झुटणपरित्यागे बहुदुःखितो बभूव तथाऽसौ प्रस्तुतधर्मत्यागे। यथा तस्य पुनः स दुर्लभी बभूव, तथा तस्य मुक्तः प्रस्तुतो धर्मः । एतदेव च लोकोपहासभयादन्तराल एव स्वशरीरादुत्संघट्टीकृत्य मोचनं सर्व योजनीयमिति ।।५५९।।१०।। इत्थं झुंटणदृष्टान्त सापनयमभिधाय प्रस्तुते योजयति ;-न नैवेदृशानां झुंटणवणिक् सदृशानामेष धर्मो दातव्यः । किमर्थमित्याह-तेषामेव तु धर्म । ग्रहीतुमुपस्थितानामेव हितार्थम्, दृष्टान्तमाह-गाढालानादीनां प्रबलज्वरादिरोगोपहतानां स्नेहादियुत इव घृतगुडादिसन्मिश्रित इवाहारः सूपोदनादि ॥५६०॥१॥ सोमाह ब्रवीति नेदृशा एव झुंटणवणिकल्पाः सर्वे प्राणिनो भवन्ति नियमेन । कुतः यतो बुद्धियुता अपि, हुर्यस्मादर्थे, अन्वे केचन भवन्ति । अत्र च गोव्वरवणिजा दृष्टान्तः ।।५६१।।१२।।। तमेव दर्शयति-विश्वपूर्या नगर्यां प्रकटं प्रसिद्धो बत्तो नाम नौवित्तको बभूव । अथ कथञ्चित् कालेन गच्छता रिदयमुत्पन्नं तस्य । तत 'अप्पाहियसरणं'ति परलोकप्रयाणप्रस्थितेन पित्रा या शिक्षा दत्ता तस्याः स्मरणमभूत् ।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy