SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ।। ५२९ ।। । गुणठाणगपरिणामे संते तह बुद्धिमंपि पाएण । जायइ जीवा तप्फलमवेक्खमनेउ नियमत्ति || ५४६ ॥ गुणस्थानक परिणामे गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये, बुद्धिमानपि युक्तायुक्तविवेचन चतुरशेमुषी परिगताऽपि न केवलं धर्मंसारः सदा भवति, प्रायेण बाहुल्येन जायते जीवः, महतामप्यनाभागसम्भवेन कदाचित कृत्येष्वबुद्धिमत्त्वमपि कस्यचित् स्यादिति प्रायेोग्रहणम् । अत्रैव मतान्तरमाह - तत्फलं बुद्धिमत्त्वफलं स्वर्गापवर्गादिप्राप्तिलक्षणमपेक्ष्य समाश्रित्यान्ये पुनराचार्या नियमोऽवश्यंभावा बुद्धिमत्त्वस्यानाभोगेऽपि गुणस्थानक - परिणतौ सत्यामिति ब्रुवते; अयमभिप्रायः - सम्पन्ननिर्व्रणव्रतपरिणामाः प्राणिनेा 'जिनभणितमिदम्' इति श्रद्दधानाः क्वचिदर्थेऽनाभागबहुलतया प्रज्ञापकदोषाद्वितथश्रद्धानवन्तोऽपि सम्यक्त्वादिगुणभङ्गभाजा न जायन्ते, यथेोक्तम् - "सम्मट्ठी जीवा उवइट्ठ पवयणं तु सद्दहइ । सद्दहइ असब्भावं अजाणमाणो गुरुनिओगा || १||" इति बुद्धिमत्त्वे सति व्रतपरिणामफलमविकलमुपलभन्त एवेति || ५४६ ।। अत्रैव हेतुमाह ;;-- चरणा दुग्गतिदुवखं न जाउ जं तेण मग्गगामी सो । अंधोव्वसायरहिओ निरुवद्दवमग्गगामिति ॥ ५४७ ॥ चरणाचारित्राद्देशतः सर्वतो वा परिपालिताद् दुर्गतिदुःखं नारकतिर्यक्कुमानुष कुदेव स्वपर्ययलक्षणमशर्म नैव जातु कदाचिञ्जीवानां सम्पद्यते यद्यस्मात् तेन कारणेन मार्गगामी निर्वाणपथानुकूलप्रवृत्तिः स व्रतपरिणामवान् जीवः । दृष्टान्तमाह-अन्धवच्चक्षुर्व्यापारविकलपुरुष इव । असातरहितोऽसद्वेद्यकम्र्म्मोदयविमुक्तो निरुपद्रवमार्गगामी मलिम्लुचादिकृतविप्लवविहीन पाटलिपुत्रादिप्रवरपुरपथ प्रवृत्तिमान् भवतीति । यथा असातरहितोऽन्धो निरुपद्रवमार्गगामी सम्पद्यते, ।।५२९।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy