________________
।। ५२९ ।। ।
गुणठाणगपरिणामे संते तह बुद्धिमंपि पाएण । जायइ जीवा तप्फलमवेक्खमनेउ नियमत्ति || ५४६ ॥
गुणस्थानक परिणामे गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये, बुद्धिमानपि युक्तायुक्तविवेचन चतुरशेमुषी परिगताऽपि न केवलं धर्मंसारः सदा भवति, प्रायेण बाहुल्येन जायते जीवः, महतामप्यनाभागसम्भवेन कदाचित कृत्येष्वबुद्धिमत्त्वमपि कस्यचित् स्यादिति प्रायेोग्रहणम् । अत्रैव मतान्तरमाह - तत्फलं बुद्धिमत्त्वफलं स्वर्गापवर्गादिप्राप्तिलक्षणमपेक्ष्य समाश्रित्यान्ये पुनराचार्या नियमोऽवश्यंभावा बुद्धिमत्त्वस्यानाभोगेऽपि गुणस्थानक - परिणतौ सत्यामिति ब्रुवते; अयमभिप्रायः - सम्पन्ननिर्व्रणव्रतपरिणामाः प्राणिनेा 'जिनभणितमिदम्' इति श्रद्दधानाः क्वचिदर्थेऽनाभागबहुलतया प्रज्ञापकदोषाद्वितथश्रद्धानवन्तोऽपि सम्यक्त्वादिगुणभङ्गभाजा न जायन्ते, यथेोक्तम् - "सम्मट्ठी जीवा उवइट्ठ पवयणं तु सद्दहइ । सद्दहइ असब्भावं अजाणमाणो गुरुनिओगा || १||" इति बुद्धिमत्त्वे सति व्रतपरिणामफलमविकलमुपलभन्त एवेति || ५४६ ।। अत्रैव हेतुमाह ;;--
चरणा दुग्गतिदुवखं न जाउ जं तेण मग्गगामी सो । अंधोव्वसायरहिओ निरुवद्दवमग्गगामिति ॥ ५४७ ॥
चरणाचारित्राद्देशतः सर्वतो वा परिपालिताद् दुर्गतिदुःखं नारकतिर्यक्कुमानुष कुदेव स्वपर्ययलक्षणमशर्म नैव जातु कदाचिञ्जीवानां सम्पद्यते यद्यस्मात् तेन कारणेन मार्गगामी निर्वाणपथानुकूलप्रवृत्तिः स व्रतपरिणामवान् जीवः । दृष्टान्तमाह-अन्धवच्चक्षुर्व्यापारविकलपुरुष इव । असातरहितोऽसद्वेद्यकम्र्म्मोदयविमुक्तो निरुपद्रवमार्गगामी मलिम्लुचादिकृतविप्लवविहीन पाटलिपुत्रादिप्रवरपुरपथ प्रवृत्तिमान् भवतीति । यथा असातरहितोऽन्धो निरुपद्रवमार्गगामी सम्पद्यते,
।।५२९।।