________________
उपदेशपद
महाग्रंथ
।।५३० ।।
तथा चारित्री व्यावृत्तविपर्यासतया दुर्गतिपातलक्षणोपद्रवविकलो निर्वृतिपथप्रवृत्तिमान् स्यादिति ॥ ५४७॥ अमुमेवार्थमधिकृत्य ज्ञातानि प्रस्तावयन्नाह ; --
सुव्वंति य गुणठाणगजुत्ताणं एयवइयरम्मि तहा । दाणातिसु गंभीरा आहरणा हंत समयम्मि || ५४८ ||
श्रूयन्ते चाकर्ण्यन्ते एव गुणस्थानकयुक्तानां परिणतगुणविशेषाणां जीवानामेतद्व्यतिकरे व्रतप्रस्तावे, तथेति समुच्चये, 'दाणाइसु' त्ति व्रतानां दाने आदिशब्दाददाने च गंभीराणि कुशाग्रीयमतिगम्यानि आहरणानि दृष्टान्ताः हन्तेति कोमलामन्त्रणे, समये सिद्धान्ते निरूपितानि ।। ५४८ ||
आहरणसंग्रहमेव तावदाह; -
सिरिउर सिरिमइसेामाऽणुव्वयपरिपालणाए णयणिउणं । कुसलाणुबंधजुत्ता णिद्दिट्ठा पुव्वसूरीहि ॥ ५४९ ॥
श्रीपुरे नगरे श्रीमतीसेामे श्रेष्ठिपुरोहितपुत्र्यौ अणुव्रतपरिपालनायां प्रकृतयां नयनिपुणं निपुणनीतिपरिगतं यथा भवति कुशलानुबन्धयुक्ते उत्तरोत्तर कल्याणानुगमसमन्विते निद्दिष्टे प्ररूपिते पूर्व्वसूरिभिरिति । । ५४९।।
एनामेव गाथामेकोनपञ्चाशता गाथाभिर्व्याचष्टे ;
सिरिउरणगरे णंदणधूया णामेण सिरिमई सड्डी । सामा य तीए सहिया पुरोहियसुयत्ति संजाया ।। ५५० ॥ १ ॥ काले पीइवुड्डी धम्मविचारम्मि तीए संबोहि । वयगहणेच्छ परिच्छा झुंटणवणिएण दिट्ठतो ॥५५१।२।। अंगतिया धणसेठ्ठी सामिउरे संखसेट्ठि दढपीई । तीए वुड्ढिणिमित्तं अजायवचाण तह दणं ।। ५५२।।३।।
अणुव्रतपालनोदहर
भावना
॥५३०॥