________________
उपदेशपदः महाग्रंथः
।।५२८ ।। । 6
अन्यथा चिकित्साप्रवृत्तावपि न कस्यचिद् व्याधेरुपशमः स्यात्, किन्तु तद्वृद्धिरेवेति ॥ ५४३॥
--
ननु कश्चित् साध्वादिः पुष्टालम्बनमुद्दिश्य प्रतिकारं कुर्यात्ततः किं निर्ज्जरा स्याद् नवेत्यत्राह ;सव्वत्थ माइठाणं न पयट्टति भावतो तु धम्मम्मि । जाणता अप्पाणं न जाउ धीरेरा इहं दुहइ || ५४४ ।।
सर्वत्र गृहस्थसम्बन्धिनि यतिसम्बन्धिनि वाऽनुष्ठाने मातृस्थानं मायालक्षणं न नैव प्रवर्त्तते । क्वेत्याह- भावतस्तु परमार्थत एव धर्मे व्रतपरिणामे सम्पन्ने सति । यतः कुतः । जानन् लब्धसम्यग् बोध आत्मानं सर्वापरप्रियपदार्थाभ्यधिकं न नैव जातु कदाचिदपि धीरो बुद्धिमान् इह जगति द्रुह्यति द्रोहविषयं करोति मातृस्थानविधानेनेति । । ५४४ ॥
एतदेव कुत इत्याह-
कोडगा काfगणिगहणं पावाण ण उण धन्नाणं । धन्नो य चरणजुत्तोत्ति धम्मसारे सया होति ।। ५४५ ॥
कोटित्यागात् कोटिसंख्यादीनारपरिहारात् काकीणीग्रहणं काकिणी- पश्चातैश्चतुभिर्वराटकः काकिणी चैका" इति वचनात् कपर्दकविंशतिरूपा, तस्याः काकिण्या उपादानं पापानामुदीर्णलाभान्तरायादिप्रचुराशुभकर्मणां न पुनर्धन्यानां धर्मधनलब्ध्ऋणाम् । एवमपि प्रस्तुते किमित्याह - धन्यश्च धन्य एव चरणयुक्तो निष्पन्ननिष्कलंक व्रत परिणामः पुमान, वर्त्तते इत्यस्मात् कारणाद् धर्मसार: सदा सर्वकालं भवति, न तु मातृस्थानप्रधानः । इति कथमसौ कोटितुल्यनिर्ज| रालाभत्यागाद् मातृस्थानप्रधानवृत्तकारितया काकिणीतुल्यपूजाख्यात्यादिस्पृहा परः स्यादिति भावः । । ५४५ ।।
अत्रैवाभ्युच्चयमाह; -
पुष्टळंबचें निर्जरादि
।।५२८।।