________________
।।५२७॥
पूर्वभवान्तरे दुश्चिर्णानां ततस्ततो निबिडाध्यवसायाद् निकाचनावस्थानीतानां कर्मणां ज्ञानावरणादीनामक्षयेणानिजरणेन ना नैव मोक्षः परमपुरुषार्थलाभसरूपा यतः सम्पद्यते, किन्तु क्षयादेव । ततः कर्मक्षयार्थिना उपसर्गाश्चेदुपपस्थिताः सम्यक् सेोढव्याः। यदा कश्चित् साढुं न शक्यते, तदा प्रतीकारप्रवृत्तिरपि प्रतिविधानचेष्टारूपा श्रेयसी. । इह दुश्चिर्णकर्मणां क्षये, वचनसारा कल्पादिग्रन्थोक्ता ग्लानचिकित्सासूत्रानुसारिणी, यथा-फासुयएसणिएहि फास्यओहासिएहि कोएहि । पईए मिस्सएहिं आहाकम्मेण जयणाए ॥१॥" न तु गुरुलाघवालोचनविकला स्वविकल्पमात्रप्रवृत्ता ॥५४२॥ एतदेवाधिकृत्याह;
अट्टज्झाणाभावे सम्म अहियासियव्वतो वाही । तब्भावम्मिवि विहिणा पडियारपवत्तणं णेयं ।।५४३।।
आर्त्तध्यानाभावे "तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तदसंपओगचिता तप्पडियाराउलमणस्स ॥" इत्येवंलक्षणस्य ध्यानशतकोक्तस्यार्तध्यानस्याभावे सति सम्यक् प्रागभवोपाजितकर्मनिर्जरणाभिलाषयुक्तत्वेनाध्यासि तव्योऽधिसोढव्यो मुमुक्षुणा जीवेन व्याधिः कुष्ठातिसारादिः सनत्कुमारराजर्षिवत् । तथा च पठ्यते--"कंडू अभत्तसद्धा तिव्वा वियणा य अच्छिकुच्छीसु । सासं खासं च जरं अहियासे सत्त वाससए ॥१।" यतः, "पुब्धि कडाणं दुप्पडिकताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता तवसा च ज्झोसइत्त" त्ति । अथ दुर्बलसत्त्वतया व्याधिबाधामसह| मानस्य कस्यचिद् यदा-ध्यानमुत्पद्यते संयमयोगा वाऽवसीदेयुः, तदा किं कर्त्तव्यमित्याशंक्याह-तद्भावेऽप्या-ध्यानभावे, अपिशब्दांत संयमयोगापगमे च विधिना निपुणवैद्यगवेषणादिलक्षणेन प्रतीकारप्रवर्त्तनं चिकित्सारम्भणं ज्ञेयम् ,
| ।५२७।