________________
उपदेशपद महाग्रंथ
॥५२६॥
सालंबसेवी समुवेइ मोक्ख ||१||" ५३९॥४॥ ततो देवोपयेागे देवाभ्यां निजप्रतिज्ञातेऽर्थे निश्चलतायास्तस्यालोकेऽवधिना कृते तयोर्देवयेास्ताषो हर्षो जातः, -अहो ! सत्यप्रशंस एष इति । तदनु निजरूपं दिव्यभावलक्षणं समुपदर्शितम् । ताभ्यां तदनु रोगहरणं ज्वरातिसारादिसर्वरोगापहारः कृतः । तस्य नामाभिधानं च, इतिशब्दो भिन्नक्रमे । तत आरोग्य इति 'से' तस्य जातम्, परिशुद्धारोग्यगुणानन्यरूपत्वात् । तथा हि- प्राग् रोगेभ्योऽभिन्नरूपत्वेन रोग इति तस्य नाम रूढं तथा सम्प्रति देवप्रसादोपलब्धावारोग्यगुणादव्यतिरिक्तरूपादारोग्य इति नामास्य रूढिमगमत् । उपसंहरन्नाह व्रतपरिणामः प्राणातिपातादिविरतिपरिणतिरूपः, इत्येवं कष्टदशायामप्यविचलमना द्रष्टव्यः || ५४० ॥ ५ ॥ अत्र च सति यत् स्यात्तद्दर्शयति ;
-
सइ एयम्मि विचारति अप्पबहुत्तं जहट्ठियं चेव । सम्मं पयट्टति तहा जह पावति निज्जरं विउलं ।। ५४१ ||
सत्येतस्मिन् व्रतपरिणामे विचारयति मीमांसते । किमित्याह - अल्पबहुत्वं गुणदोषयोः सर्वप्रवृत्तिषु यथावस्थितमेवाविपर्यस्तरूपं न त्वथित्वातिरेकात् । आरूढविपर्ययः सदपि दोषबाहुल्यं नावबुध्यत इति । तथा, सम्यक् परिशुद्धोपायपूर्वकतया प्रवर्त्तते सर्वकार्येषु तपेोऽनुष्ठानादिषु तथा, यथा प्राप्नोति लभते निर्जरां कर्मपरिशाटरूपां विपुलाम क्षीणानुबन्धत्वेन विशालामिति । असम्पन्नव्रतपरिणामा हि बहवो लेाकात्तरपथावतारिणोऽपि गुरुलाघवालोचनविकला अत एवाव्यावृत्तविपर्यासास्तथा प्रवर्त्तन्ते यथा स्वपरेषां दिङ्मूढनियमका इवाकल्याण हेतवो भवन्ति ।। ५४१ । । एतदेव भावयति ; पुव्वि दुच्चिन्नाणं कम्माणं अक्खएण णो मोक्खो । पडियारपवित्तीवि हु सेया इह वयणसारति ।। ५४२ ||
व्रतपरिणा| मगुणदापाल्पबहुत्वम् -
।।५२६।।