SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ॥५२५॥ कककालकर वैद्याभ्यां पुनः कृता, यथायमावाभ्यां क्रियमाणामपि चिकित्सां नेच्छति, न चैतत् सुन्दरम्, यतः पठन्ति कुशला:-- "विषं कुपठिता विद्या, विषं व्याधिरुपेक्षितः । विषं गोष्ठि दरिद्रस्य, वृद्धस्य तरुणी विष्णम ॥१॥" इति । ततो "लग्गण सत्थकहाहि ताणंति" लगनं बद्धादरत्वं तस्य चिकित्साकारणे, कथमित्याह-शास्त्रकथाभिस्तेषां राज्ञः स्वजनानां च; राजा स्वजनाश्च शास्त्रकथाभिस्तं चिकित्सायां प्रवर्तयितुं लग्ना इति भावः; यथा-"शरीरं धर्मसंयुक्त रक्षणीयं प्रयत्नतः । शरीराच्छवते धर्मः प्रर्वतात् सलिलं यथा ॥१॥" नहि देहविनाशे कस्यचित् काचित् प्रत्याशा साफल्यमश्नुते, इति सर्वथा देह एव रक्षणीय इति । इदं च तैरुच्यमानस्येतरस्य रोगनाम्ना द्विजस्य संवेगो देहादिप्रत्याशापरिहारेण निर्वाणाभिलाष एव विजम्भितः । यथोक्तम्-"जं अज्ज सुहं भविणो संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं अपवग्गसुहं बुहा तेण ॥१॥" ॥५३८।३।। ततस्तेन देहार्थपीडाज्ञानाद् देहार्थयोः पीडादृष्टान्तात "आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद् दारैरपि धनरपि ।।१॥" एवंरूपात्, किमित्याह-प्रतिबोधनं तु सन्मार्गावतारणमेव नवरमेतेषां राजादीनां कृत्तम्, न पुनश्चिकित्साङ्गीकार इति । यात्र तेन दृष्टान्तदार्टान्तिकभावना कल्पिता ता दर्शयति-आत्मा तु आत्मा पुनर्देहतुल्यः शरीरसदृशः देहः पुनरर्थल्योऽर्थसमः प्रतिभासते। इति प्राग्वत् । यथा हि लोकनीत्या देहार्थयार्युगपत पीडायामर्थपरिहारेण देह एव रक्ष्यते, तथा धार्मिकाणां देहपीडोपेक्षणेनात्मैव रक्षणीयतया प्रतिभासत इत्युत्सर्ग एषः । अव्युच्छित्त्यादिप्रयोजनान्तरासहानां युक्तमेव देहानुप्रेक्षणम । यदवाचि निशीथभाष्ये-"काहं अछित्ति अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गणं च नीईय व सारइस्सं बालकलाक
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy