________________
उपदेशपदार महाग्रंथ
॥५२४॥
उज्जयिन्यां नगर्या बालकालादेव रोगबहुलतया रोगा नाम रोग इत्याख्यया प्रसिद्धः, धिग्जातीयो महालोभाभिभू- I आरोग्यततया परप्रार्थनाप्रवणत्वेन धिग निन्दनीया या जातिस्तस्या भवो ब्राह्मण इत्यर्थ । कीदृशः इत्याह-महाश्राद्धोऽणुव्रतादिश्रावकसमाचारशुद्धपरिपालनतया प्रधानश्रावकः । तस्य च भवान्तरोपाजितासद्वेद्यादिकर्मपरिपाकतः कश्चिदनिर्धारित
र्शनम्स्वरूपो रोगो जातः । तेन च सम्पद्यमानचिकित्सासामग्रीकेणापि तस्य रोगस्याधिसहनमाश्रितम्, यथा-"सह कडेवरखेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि कर्म हे परवशा न च तत्र गुणोऽस्ति ते ॥१॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि ॥२॥" एवं च तस्य तं रोगं सम्यगधिसहमानस्य, अत एव रोगप्रतीकारपराङ्मुखस्य गच्छत्सु दिवसेसु देवेन्द्रप्रशंसा प्रवृत्ता, यथा-अहो! महासत्वो रोगनामोजयिन्यां ब्राह्मणो यदेवमुपस्थाप्यमानचिकित्सोऽपि तदनपेक्षतया रोगमधिसहमानस्तिष्ठति । ततश्च तस्याश्चाश्रद्धानेऽप्रतीतौ कौचिद् द्वौ देवी ॥५३६।।१।। कृत्वा विधाय वैद्यरूपं भणतः, यथा-त्वां प्रज्ञापयावो नीरोगदेहं विदध्वः आवाम्, इति वाक्यपरिसमाप्तौ, परं रजन्यां रात्री परिभोगाऽशनादीनां मधुमद्यमांसम्रक्षणानां चतुर्णा ) त्वेतेषां भोगा विधेय इत्यर्थः ॥५३७॥२॥ ततस्तस्य रोगनाम्नो ब्राह्मणस्य बृहस्पतेरपि सकाशात् समधिकप्रतिष्ठस्या- ॥५२४।। नेषणमप्रतिपत्तिरूपं संवृत्तम् । यतः परिभावितमनेन "वरंशृङ्गात्तुङ्गाद् गुरुशिखरिणः क्वापि विषमे, पतित्वाऽयं कायः कठिनहषदन्तविदलितः। वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, निपातो वा वह्नौ तदपि न कृतः शीलविलयः ॥१॥" इति । ततस्तस्य चिकित्साऽनिच्छायां कथना निवेदना राज्ञः स्वजनस्य चैव बान्धवलोकस्य 'तेसिं तु' ताभ्यां