SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ।।५२३।। ९ "देशे क्षेपे कृते सति मलस्य किट्टलक्षणस्य गमोऽपगमः । ततस्तस्मात् सुवर्णदर्शनं खरकर्मणां दण्डपाशिकनराणां तैश्च निवेदितम् । दण्डिक पृच्छा - राज्ञा प्रश्नः कृतः शेषेषु कुशेषु विषये यथा क्व शेषाः कुशा विक्रीता भवद्भिरिति ।। ५३४ ॥ ४ ॥ तैश्च साधनं निवेदनं कृतं यथा दृष्टपूर्वा अन्येनैकेन नन्देन दृष्टाः परमग्रहणं चाग्रहणमेव तेन तेषां कृतम्, अनेन तु गृहीताः प्रभूता इति । ततः पृच्छा तस्य राज्ञा कृता, यथोपस्थिता अध्यमी कुशाः कस्माद् न गृहीताः ? भणितं च तेन देव ! इच्छापरिमाणव्रतभङ्गभयात् । ततः श्रावकपूजा श्रावकस्य शुद्धव्यवहारतया पूजा महागौरवरूपा कृता, दण्ड इतरस्य मिथ्यादृशो नन्दस्य पुनः रौद्रः सर्वस्वप्राणहारणलक्षणः कृतः । तथा ह्यसौ मित्रगृहाद् निवर्तमान एवं वृत्तान्तमाकर्ण्य 'अहो ? निजजंघाबलादेव हट्टादुत्थायाहमन्यत्र गतः, ततो नूनमेतयेारेवापराधः तच्छेदनीये एते' इति परिभाव्य तीक्ष्णधारेण कुठारेण तयोर्धातमाचचार । ज्ञातवृत्तान्तेन च राज्ञा तदवस्थस्यापि तस्य दण्डो विहित इति ।।५३५ ।। ५ ।। अथ षष्ठमुदाहरणं गाथापञ्च केनाह ; - उज्जेणीए रोगो णामं धिज्जाइओ महासड्डो । रोगहियासण देविदपसंसा असद्दहण देवा ||५३६ ।। १ ।। काऊण वेजरूव भणति तं पण्णवेमो अम्हेति । रयणीए परिभोगो महुमाईणं चउन्हं तु ॥ ५३७ ।।२।। तस्माणिच्छण कहणा रन्नो सयणस्स चेव तेसि तु । लग्गण सत्यकहाहि ताणं इयरस्स संवेगो ।।५३८॥३॥ देहत्थपीडाणाया पडिबोहण मो तु णवरमेतसि । आया तु देहतुल्लो देहा पुण अत्थतुल्लोत्ति ॥५३९।।४।। देववओगे तोसो नियरूवं रोगहरण नामंति । आरोगो से जायं वयपरिणामोत्ति दट्ठव्व ॥ ५४० ॥५ ।। ।।५२३।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy