________________
नन्दद्विकादाहरणम्
पदेशपदः
| गखानककिलरैर्ग्रहणक्रिया तेषु दानं तेषां कृतम् । विपणिपथावतारणेन च विक्रयणमारब्धम् । तत्र च 'सङ्कपरिणाणगह'त्ति हााग्रंथः
तेन नन्दश्राद्धेनाकारविशेषात् तौल्यविशेषाच्च किट्टावृता अपि ते सुवर्णमया इति ज्ञानविषयतां नीताः । अग्रहाऽनुपादानं च कृतं चैषाम् । कुत इत्याह- इच्छापरिमाणभंगभयात् । यद्यपि राजलोकेन तथा गृह्यमाणेषु ज्ञातेषु तेषु सर्वस्वापहा
रादिको निश्चितो दण्डः सम्पद्यत इति मनसि तस्य वितर्कणमस्ति, तथापि तदवधीरणेन प्रतिपन्नस्येच्छापरिमाणव्रतस्य ॥५२२॥ तत्सुवर्णकुशसंग्रहेणाधिक्यं संजायते, इति मा भूत् प्राणभङ्गादपि दारुणफलो व्रतभङ्ग इत्यभिप्रायाद् न गृहीता इति
॥५३२॥२॥ इतरग्रहः इतरेण मिथ्यादृशा नन्देन दारुणलोभभुजगविषविह्वलेन ग्रहस्तेषां विज्ञाततथावस्थिततत्स्वरूपेणापि कृतः । भणितं च प्रतिदिनमिहानयत कुशानेतान् कार्य महदस्माकमेतैः । आगतानां च ग्रहणमधिकेन लोहमयकुशमौल्याद् अतिरिक्तेन द्रव्येण करोति स्म । एवं च बहुग्रहणं प्रतिदिवसं गृह्यमाणतया बहूनां प्रभूतानां ग्रहणमजनि । अन्यदा च कस्यचित् स्वजनादेरलंघनीयवचनस्य गहे कश्चिदुत्सवो बभूव । तेन चासावागत्य निमंत्रितः। ततो निमन्त्रणात्-यथाऽहं तडागखानकहस्तात् कुशान् गृहीतवान् तथा भवतापि ग्राह्या इति पुत्रनिरूपणानन्तरं तेन तत्र गमनं कृतम् ॥५३३॥३॥ तस्य च तत्रागमः समागमनं तडागखानकानां कुशहस्तानां हट्टे संजातम् । तैश्चाधिकधनेन ते कुशा दातुमारब्धाः। तेन चादानमधिकमूल्यस्य कृतम् । ततेो व्यावृत्तमार्गणा च व्यावृत्तस्य हट्टव्यवहारे तस्य पार्थात् पुनरप्यधिकमूल्यमार्गणा सत्वरैः सद्भिरतैर्यदा कृता, तदा तेन रोषणाक्षमया तेषां कुशानां हट्टाद् बहि
||५२२॥