________________
।।५२१।४
अथ पञ्चमोदाहरणम् ; -
नासेके नंददुयं एगो सङ्गोऽवरो उ मिच्छत्तो । राय तलाग णिहाणगसेावण्णकुसाण पासणया ।। ५३१ । । १ । । तह किट्ट लोहमयगा अजत कम्मकर गहण विक्कणणं । सङ्घपरिण्णाणग्गह इच्छा परिमाणभंगभया ॥ ५३२।। २ ।। इयरगह पइदिणमिहं आणिज्जेह गहणमहिगेणं । बहु गमण निमंतणाओ तह पुत्तनिरूवणा गमणं ॥ ५३३||३|| आगम अहिगादाणं वावंडमग्गण य रोस खिवणम्मि । मलगम सुवण्णदंसण खरवंडिय पुच्छ सेसेसु ।। ५३४॥४॥ - साहणगदिट्ठपुव्वा अण्णेणेगेण दिट्ठगहणं च । पुच्छा सावगपूया दंडो इयरस्स अंइरोद्दो ||५३५ ।५॥
नासिक्य नगरे नन्दद्विकं द्वौ नन्दनामनो वणिजो समभूताम् । तयोश्चैकः श्राद्धो जिनवचनश्रद्धालुः गृहीताणुव्रतादिश्रावक जनयेाग्यसमाचारो भगवदर्हद्वचनमेव सर्वसमीहितसिद्धिहेतुतया नित्यं मन्यमानः सन्तोषपीयूषपानप्रभावान्निवारित विषयलोभविषवेगः प्रशमसुखखानिमध्यमग्नः कालमतिवाह्यांचकार । अपरस्तु द्वितीयः पुनः 'मिच्छत्तो' इति मिथ्यात्वं युक्तायुक्त वस्तुविचारतिरस्कारकारी जीवपरिणतिविशेषस्तेनार्त्तः पीडिता मिथ्यात्वार्त्तः; अथवा दण्डयेोगाद्दण्डवद् मिध्यात्वयेोगाद् मिथ्यात्वः सन् अतितीव्रलोभा भृशं सर्वक्रियासु गुणदोषयाः परिणाममगणयन् प्रवृत्तिमाललम्बे | अन्यदा 'रायतलाग' त्ति राज्ञा तडागमोड्डेः खानयितुमारब्धम् । तत्र च निधानगतसौवर्णकुशानामतिचिरकालनिधाननिक्षिप्तसुवर्णमयकुशाना मोड्डानां दर्शनमजायत ।। ५३१ ॥ १ ॥ 'तह किट्ट' त्ति तथाविधताम्रमयाधारमलसंगलनात् सम्पन्नकिट्टास्ते संजाताः । ततः सुवर्णछायाभङ्गालोहमयका इति संभाव्यायत्नाऽनादरस्तेषु तैर्विहितः । कर्मकरैश्च तडा
।।५२१॥