________________
॥९१॥
KXXX***********XXXXXXXXXXXXX
ष्मिकफलप्राप्तिप्रगुणा, विनयसमुत्था विनयोद्भवा बैनयिकी इत्यर्थः भवति बुद्धिः ॥४३।।
अर्थतज्ज्ञातानि ;णिमित्ते अत्थसत्थे य लेहे गणिए य कूव आसे य। गद्दभलक्खणगंठी अगए गणिया य रहिए य ॥४४॥ सीआसाडी दीहं च तणं अवसव्वयं च कुंचस्स । निव्वोदए य गोणे घोडगपडणं च रुक्खाओ ॥४५॥
निमित्तं १, अर्थशास्त्रं च २, 'लेहे' इति लेखनं ३, गणितं च ४, कूपः ५, अश्वश्च ६, गर्दभः ७, लक्षणं ८, ग्रन्थिः ९, अगदः १०, गणिका च रथिकश्चेति ११ ॥४४॥ शीतसाटी दीर्धं च तृणं, अपसव्यकं च क्रौञ्चस्य
इत्येकमेव १२, नीबोदकं च १३, गौः घोटकः पतनं च वृक्षादित्येकमेव १४ । एवं वैनयिक्यां सर्वाग्रेण चतुर्दश * ज्ञातानि । एतान्यपि स्वयमेव शास्त्रकृता व्याख्यास्यन्त इति नेह प्रयत्नः ॥२॥४५।।
____ अथ कर्मजायाः स्वरूपमाह;उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवइ बुद्धो ॥४६।।
उपयोजनमुपयोगो विवक्षितकर्मणि मनसोऽभिनिवेशः, सारस्तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा अभिनिवेशोपलब्धकर्मसामर्थ्यत्यर्थः; कर्मणि प्रसङ्गोऽभ्यासः, परिघोलनं विचारः, आभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णा इति. यावत् । साधुकृतं सुष्ठु कृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः साधुकारेण वा शेषमपि फलं यस्याः सा तथा । कर्मसमुत्था कर्मजा भवति
॥९
॥