________________
श्रीउपदेशपदे
र पद्ध
बुद्धिचतुटये प्रथमबुद्धिलक्षणम.
१९०11
८, पायसं ९, 'अइया' इति अजिकाया छगलिकायाः पुरीषगोलिका १०, 'पत्ते' इति पिप्पलपत्रं ११, 'खाडहिल'त्ति खिल्लहडिका १२, पञ्च पितरश्च तव राजन् पञ्च जनकाः १३ । इयं च संग्रहगाथा स्वयमेव सूत्रकृता व्याख्यास्यत इति न विस्तार्यते ॥४१।।
तथा,महुसित्थमुद्दियंके जाणए भिक्खुचेडगनिहाणे । सिक्खा य अत्थसत्त्थे इच्छा य महं सयसहस्से ॥४२॥
'महुसित्थ'त्ति मधुसिक्थक मदनं १, मुद्रिका २, अंकश्च ३, ज्ञानकं व्यवहाराहरूपकलक्षणं ४, 'भिक्खुचेडगनिहाणे' इति भिक्षुः ५, चेटकनिधानं ६, शिक्षा च ७, अर्थः ८, शस्त्रं ९, 'इच्छा य महंति इच्छा च मम १०, शतसहस्रं * ११ एतान्यपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते । एवं चाद्यसंग्रहगाथायाः संबन्धीनि सप्तदश एतानि चैकादश मीलितानि अष्टाविंशतिर्मूलज्ञातानि औत्पत्तिक्यां बुद्धाविति ॥१॥ ४२।।
अथ वैनयिकीस्वरूपमाह;भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ॥४३॥
इहातिगुरुकार्य दुनिर्वहत्वाद् भर इव भरस्तस्य निस्तरणे पारप्रापणे समर्था भरनिस्तरणसमर्था, त्रयो वर्गास्त्रिवर्ग • लोकरूढेधर्मार्थकामास्तदर्जनपरोपायप्रतिपादनमेव सूत्रं तदन्वाख्यानं तदर्थः पेयालो विचारः सार इत्येकोऽर्थः, ततत्रिवर्गसूत्रार्थयोर्गृहीतं पेयालं यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला, 'उभओलोगफलवइ'त्ति उभयलोकफलवती ऐहिकामु
॥२०॥
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
*******)