________________
श्रीउपदेशपदे
।। ८८ ।।
ङ्गत्व... सर्वबुद्धिसाधारण इति न विवक्ष्यते । न चान्यच्छास्त्रकर्मादिकमपेक्ष्यत उत्पत्ति, विहाय । यदत्र 'उत्पत्तिगी 'ति निर्देष्टव्ये 'उत्पत्तिय' इति निर्देशः स प्राकृतत्वात् । एवमन्यत्राप्यन्यथानिर्देशे, हेतुर्वाच्यः (१) 'वेणइया' इति विनयो गुरुशुश्रूषा, स च कारणमस्यास्तत्प्रधाना वा वैनयिकी ( २ ) 'कम्मय'त्ति इह कर्मशब्देन शिल्पमपि गृह्यते । तत्र अनाचार्यकं कर्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म, शिल्पं नित्यव्यापारः । ततः कर्मणो जाता कर्मजा (३) तथाशब्दः समुच्चये 'पारिणामिया' इति परि समन्ताद् नमनं परिणामः सुदीर्घकालं पूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः, स कारणमस्यास्तत्प्रधाना वा पारिणामिकी (४) चैवशब्दस्तथाशब्दवत्, बुध्यतेऽनयेति बुद्धिर्मतिः सा चतुर्विधैव, खलुशब्दस्य निर्धारणार्थत्वात् । निर्दिष्टोक्ता समय क्रेतुभिः सिद्धान्तप्रासादचिह्नभूतैस्तीर्थकर गणधरादिभिरित्यथः
॥३८॥
औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह ; -
पुव्वम दिट्ठमसुय भवेइयत क्खणविसुद्धगहियत्था । अव्वाहयफलजोगी बुद्धी उत्पत्शिया नाम ॥ ३९ ॥
'पुव्वं इत्यादि पूर्वं शुद्ध त्पादात् प्राग् अदृष्टः स्वग्रमनवलोकितः, 'मसुय' इति मकारस्यालाक्षणिकत्वादश्रुतोऽन्यतोऽपि नाकणितः, 'मवेइय'त्ति अत्रापि मकारः प्राग्वत, ततोऽवेदितो मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धो यथावस्थितो गृहीतोऽवधारितोऽर्थोऽभिप्रेतः पदार्थो यया सा तथाऽदृष्टाश्रुतावेदिततत्क्षणविशुद्धगृहीतार्था । 'अव्वाहय फलजोगी' इति इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनं अव्याहतं च तत् फलं
बुद्धिचतुष्टये प्रथमबुद्धिलक्ष
णम्..
||८८।।