________________
श्रीउपदेशपदे
।। ८६ ।।
आसन्न सिद्धियाणं लिंगं सुत्ताणुसारओ चेव । उचियतणे पवित्ती सव्वत्थ जिणम्मि बहुमाणा ||३५||
आसन्ना तद्भवादिभावित्वेन समीपोपस्थायिनी सिद्धिर्मुक्तिर्येषां ते तथा तेषां भव्यविशेषाणां लिङ्गं चिह्नं व्यञ्जकमित्यर्थः । धूम इव गिरिकुहरादिवत्तनो वह्नेः । कासावित्याह- सूत्रानुसारादेवागमार्थानुवृत्त रेव उचितत्वेन तत्तद्द्रव्यक्षेत्रकालभावानुरूपेण या प्रवृत्तिः स्वकुटुम्बचिन्तनरूपा द्रव्यस्तवभावस्तवरूपा च । कुत एतदेवमित्याह - सर्वत्र कृत्ये इत्थं प्रवृत्तौ धार्मिकस्य जिने भगवति सर्वत्रौचित्यात् प्रतिपादयितरी बहुमानाद् गौरवात् । स हि सूत्रासुसारेण प्रवर्त्तमानो "भगवतेदमिदमित्थमित्थं चोक्तम्" इति नित्यं मनसाऽनुस्मरन् भगवन्तमेव बहु मन्यते । संजातभगवद्बहुमानश्च पुमानविलम्बितमेव भगवद्भावभाक् संपद्यते । यथोक्तम् ; - अक्खयभावे मिलिओ भावो तब्भावसाहगो नियमा । न हु तंबं रसविद्धं पुणोवि तंबत्तणमुवेइ ||१||" इति सर्वत्रौचित्यप्रवृत्तिरासन्न सिद्धेर्जीवस्य लिङ्गमुक्तमिति ॥ २५ ॥ एतद्विपर्यये दोषमाह ;
आय पर परिचाओ आणाकोवेण इहरहा नियमा । एवं विचितियव्वं सम्मं अइणिउणबुद्धीए ॥ ३६ ॥
आत्मपर परित्यागः आत्मनः स्वस्य परेषां चानुगृहीतुमिष्टानां देहिनां परित्यागः दुर्गतिगर्त्तान्तर्गतानां प्रोज्झनं कृतं भवति आज्ञाकोपेन भगवद्वचनवितथासेवनरूपेण, इतरथा सूत्रानुसारप्रवृत्तिरूपप्रकारपरिहारेण प्रवृत्तौ सत्यां नियमादवश्यंभावेन । यथोक्तत्; - इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसि । आणं विणा जिणाणं जे ववहारं ववहरति ||१||" यत एवं तत एवमुक्तप्रकारेण विचिन्तयितव्यं विमर्शनीयं सम्यग् यथावद् अतिनिपुणबुद्धया कुशाग्रादपि तीक्ष्ण
आसन्न सिद्धिजीवस्यौचित्यानौचित्यप्रवत्तौ गुण
'दोषी
तत्त्वबाधे
निपुणबु
द्विरा
श्यिकी.
॥८६॥