________________
।। ८५ ।।
सा तेन सविकारं परं तया न इच्छाअभिलाषरूपा दर्शिता, — तदनु तस्यास्ताभिस्ताभिः कथाभिविनोदहेतुभिर्धरणं. कालयापनं प्रारब्धं भूभुजा ||३१|| 'चित्तविणोए' इति चित्तविनोदमात्रे च तस्य संपन्ने अन्यदा वानरनट्टम्मि' त्ति वानरेण नन्दजीवेन नृत्ये प्रारब्धे सति 'जातिसरण' त्ति जातिस्मरणमासादितम् । तदनु संवरणमनशनं विहितं तेन । 'देव' त्ति देवस्तदनन्तरमभूद्धानरजोवः । परीक्षा कृता तेन सुन्दरीशीलस्य । ततोऽथ निजरूपमादर्शितम् । 'कहण' त्ति कथनं च समग्रस्यापि प्राच्यवृत्तान्तस्य । 'रण्णो उ संबोहि' त्ति राज्ञः पुनः संबोधिः सम्यग्बोधः प्रादुर्भूतः ॥ ३२॥ ततः श्रावस्त्यां नगर्यां 'सिद्धगुरू' इति सिद्धाभिधानसूरीणां 'विउव्वदिक्खा' इति वैक्रियरूपेण विहितदीक्षां सुन्दरी विधाय 'परिच्छ 'त्ति परीक्षा 'सामइए आलावगनिमित्ते' इति सामायिकालापकनिमित्तं विहिता देवेन । 'अदाण'त्ति सामायिकालापकस्याप्रदाने कृते सति गुरुणा, 'कोवेयरा' इति कोपेतरौ 'देवे' इति देवेन विहितो बहिर्वृत्त्या कोप: अंतर्वृत्त्या च संतोषः कृतः इत्यर्थः ||३३|| ततो ज्ञातवृत्तान्तेन लोकेन प्रशंसा कृता - यथा, सर्वज्ञशासनमीदृशं सुदृष्ट निपुणप्रज्ञापकनिरूपितं इत्यनेनोल्लेखेन । ततो 'बोहिबीय राहण' त्ति बोधिः पारगतगदितधर्मप्राप्तिः केषांचिजीवानां समभूत्, अन्येषां च बीजस्य सम्यग्दर्शनादिगुणकलापकल्पपादपमूलकल्पस्य देवगुरुधर्मगोचरकुशल मनोवाक्काय प्रवृत्तिलक्षणस्याराधनं सेवनं समपद्यत । एवं प्रस्तुतसूत्रप्रदानवत् सर्वत्र प्रव्रज्यादानादौ सूत्रानुसारादेव मतिमतां च वर्त्तनं विज्ञेयमिति ॥ ३४ ॥
अथ सूत्रानुसारप्रवृत्तिमधिकृत्याह ; -
॥८५॥