________________
शपदे
सूत्रग्रहण
द्यावन्व यव्यतिरेकभावना.
KKKX
श्रीउपदे- प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः ॥८॥" तदेव दुर्निवारवैधुर्याधायकतया ज्वरो रोगविशेषस्त-
स्योदय उद्भवस्तत्र ज्ञेयम् । अयमत्र भावः-यथा ज्वरोदये शमनीयमप्यौषधं प्रयुज्यमानं न गुणाय, किन्तु महते दो- षाय संपद्यते । एवं सूत्रमपि संसारव्याधिबाधानिरोधकारकतया परमौषधसममपि दुविनीतप्रकृतेरविधिप्रधानस्य च
जीवस्य महति मिथ्यात्वज्वरोदये योजनीयम् । अन्यत्राप्युक्तम् ;-"सप्तप्रकारमिथ्यात्वमोहितेनेति जन्तुना । सर्व वि॥७६।। षाकुलेनेव विपरीतं विलोक्यते ॥१॥" तथा,-अप्रशान्तमतौ शाखसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनी
यमिव ज्वरे ॥२॥ पठन्नपि वचो जैन मिथ्यात्वं न विमुञ्चति । कुदृष्टिः पन्नगो दुग्धं पिबन्निव महाविषम् ॥३॥" ।। २८॥
इत्थं शिष्यविषयमुपदेशमभिधाय सांप्रतं तमेव गुरुगोचरमाह* गुरुणावि सुत्तदाणं विहिणा जोग्गाण चेव कायव्वं । सुत्ताणुसारओ खलु सिद्धायरिया इहाहरणं ।।२९।।
गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थाभिधानः स्वपरतन्त्रवेदी पराशयवेदकः परहित निरतो यातविशेषो गुरुः, तेनापि, न केवलं शिष्येण, विधिना विनयेन च सूत्रं ग्रहीतव्यमित्यपिशब्दार्थः, सूत्रदानं श्रुतरत्नवितरणं विधिना "सुतत्थो खलु पढमो" इत्यादिना आवश्यकनियुक्तिनिरूपितेन क्रमेण, 'जोग्गाण चेव'त्ति योग्यानामेव विनयावनामादिगुणभाजनत्वेनोचितानामेव कर्त्तव्यं, न पुनरयोग्यानामपि । यथोक्तम् ;--"विणओणएहिं पंजलिउडेहि छंदमणवत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥१॥" तथा, "उवहियजोगद्दव्वा देसे काले परेण विणएण ।
॥७६॥