________________
॥७७॥
चित्तण 'अणकलो सीसो सम्म सुयं लहइ ।।२॥" कथमित्याह-सूत्रानुसारतः सूत्रस्य व्यवहारभाष्यस्यानुसारोऽनुवतनं तस्मात् । खलुरवधारणे । ततः सूत्रानुसारादेव तदतिक्रमेण सूत्रदाने तद्द्वेषित्वमेव कृतं स्यात् । यथोक्तम ;-'त. त्कारी स्यात स नियमात्तद्वेषी चेति यो जडः । आगमार्थे तमुल्लङ्घय तत एव प्रवर्तते ॥१॥ आगमात्सर्व एवायं व्यवहारो व्यवस्थितः । तत्रापि हाठिको यस्तु हन्ताज्ञानां स शेखरः ॥२॥" सूत्रानुसारश्वायम् ;-तिवरिसपरियागस्स उ आचारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्म सूयगडं नाम अंगं ति ॥१।। दंसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ च्चिय दो अंगे अट्रवासस्स ॥२॥ दसवासस्स विवाहो एक्कारसवासयस्स उ इमे उ । खुल्लियविमाणमाई अज्झयणा पंच नायव्वा ॥३॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उढाणसुयाइया चउरो ॥४॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिति । पन्नरसवासगस्स य दिट्ठीविसभावणं तह य ॥५॥ सोलसवासाईसु य एगुत्तरवड्डिएसु जहसंखं । चारणभावण-महसुविणभावणा तेयगनिसग्गा ॥६।। एगणवासगस्स उ दिट्ठीवाओ दुवालसममगं । संपुन्नवीसवरिसो अणुवाई सव्वसुत्तस्स ॥७॥" इति । श्रमणीस्तु प्रतीत्याऽकालचारित्वादिपरिहारलक्षणः सूत्रानुसारः । अकालचारित्वलक्षणं चेदम् ;-"अट्ठमीपक्खिए मोत्तुं वायणाकालमेव उ । सेसकालमइंतीओ नायव्वा काल चारिओ ।।१॥" सिद्धाचार्याः सिद्धाभिधानसूरय इह सूत्रानुसारतः सूत्रदाने, आह्रियते आक्षिप्यते प्रतीतिपथेऽवतार्यते दार्शन्तिकोऽर्थों येन तदाहरणं दृष्टान्तः ॥२९॥
तदेवाह;
| ॥७७॥