________________
॥७५॥
दूषितस्य पुनः प्राणिनः सूत्रग्रहणप्रवृत्तावप्येतद्वितयमपि विपरीतं प्रजायत इति ॥२७॥
विपर्ययफलमेव दृष्टान्तद्वारेण भावयति ;समणीयंपि जरुदये दोसफलं चेव हंत सिद्धमिणं । एवं चिय सुतं पि हु मिच्छत्तजरोदए णेयं ॥२८॥
शमयत्युपशमयति शमनीयं पर्पटकादि तदपि, किंपुनरन्यत्तत्प्रकोपहेतुघृतादि, ज्वरोदये पित्तादिप्रकोपजन्ये ज्वरोद्भवे । किमित्याह-दोषफलं चैव सन्निपातादिमहारोगविकारहेतुरेव, 'हंत' त्ति सन्निहितभव्यसभ्यामन्त्रणम्, सिद्ध प्रत्यक्षादि प्रमाणप्रतिष्ठितमिदं पूर्वोक्त वस्तु । इत्थं दृष्टान्तमुपदर्य दार्शन्तिकयोजनामाह;-'एव चिय'त्ति एवमेव 'सुत्तपि हु'त्ति सूत्रमप्युक्तलक्षणं मिथ्यात्वज्वरोदये । मिथ्यात्वं नाम सर्वज्ञप्रज्ञप्तेषु जीवाजीवादिभावेषु नित्यानित्यादिविचित्रपर्यायपरम्परापरिगतेषु विपरीततया श्रद्धानम् । तच्च सप्तधा, ऐकान्तिकसांशयिकवैनयिकपूर्वव्युद्ग्राहविपरीतरुचिनिसर्गमूढहटिभेदात । यथोक्तम् ;-"पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम् । एकान्तिकादिभेदेन सप्तभेदमुदाहृतम् ॥१॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य तदैकान्तिकमुच्यते ॥२॥ सर्वज्ञेन विरागेण जीवाजीवादि भाषितम् । तथ्यं नवेति संकल्पे दृष्टिः सांशयिको मता ।।३।। आगमा लिङ्गिनो देवा धर्माः सर्वे सदा समाः । इत्येषा कथ्यते बुद्धिः पुंसा वनयिको जिनः ॥४॥ पूर्णः कुहेतुदृष्टान्तैर्न तत्त्व प्रतिपद्यते । मण्डलश्चर्मकारस्य भोज्यं चर्मलव रिव ॥५।। अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः । दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसम् ।।६।। दोनो निसर्गमिथ्यात्वस्तत्त्वातत्त्व न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा ।।७।। देवो रागी यतिः सङ्गी धर्मः
॥७५॥