________________
श्रीउपदे
शपदे
चोरोपलम्भनार्थमभनार भयकुमारकथितवृहत्कुमारिकाख्या
॥७४।
यिका,
विधीयते मया विद्यादानम् । तदनु भणितवानभयकुमार:-'अविणउत्ति अविनय इत्येवमात्मना तु सिंहासनाध्यासन। लक्षणस्त्वया राजन् ! क्रियते इत्यपरिणामो विद्यायाः । ततश्च 'पाणस्स आसण'त्ति सिंहासनं वितीर्णम्, 'भूमी राया' इति राजा स्वयं वसुंधरायामुपविष्टः । तदनन्तरं यथावत् परिणामो विद्यायाः संपन्न इति । एवमन्यत्रापि विद्याग्रहणे विनयः कार्य इति । यतः पठ्यते,-"विणएण सुयमहीयं कहवि पमाया विसुमरियं संतं । तमुवट्ठाइ परभवे केवलणाणं च आवहइ ॥१॥ विज्जावि होइ बलिया गहिया पुरिसेण विणयमंतेण । सुकुलपसूया कुलबालियव्व पवरं पई पत्ता ॥२॥" ।।२६।। ___ अमुमेवार्थमन्वयव्यतिरेकाभ्यां भावयन्नाह;
विहिणा गुरुविणएणं एवं चिय सुत्तपरिणई होइ । इहरा उ सुत्तगहणं विवज्जयफलं मुणेयव्वं ॥२७॥
विधिना मण्डलीप्रमार्जननिषद्याप्रदानकृतिकर्मकायोत्सर्गकरणादिना सिद्धान्तप्रसिद्धन, तथा गुरोः सूत्रार्थोभयप्रदातुः सरेविनयोऽभ्युत्थानासनप्रदानपादपरिधावनविश्रामणाकरणोचितान्नपानौषधादिसंपादनलक्षणश्चित्तानुवृत्तिरूपश्च गृह्यते, अतस्तेन गरुविनयेन, 'एवं चिय' त्ति एवमेव श्रेणिकमहाराजन्यायेनैव सूत्रपरिणतिगुह्यमाणागमथग्रन्थानामात्मनासहैकी| भावो भवति संपद्यते । न हि सम्यगुपायः प्रयुक्तः स्वासाध्यमसाध्यैवोपरमं प्रतिपद्यते इतरथा त्वन्यथा पुनरविधिना गरोरविनयेन चेत्यर्थः सूत्रग्रहणं प्रस्तुतमेव विपर्ययफलं विपरीतसाध्यसाधकं मुणितव्यं विज्ञेयम् । सूत्रग्रहणफलं हि यथावस्थितोत्सर्गापवादशुद्धहेयोपादेयपदार्थसार्थपरिज्ञानं तदनुसारेण चरणकरणप्रवृत्तिश्च । अविधिना गुरुविनयविरहेण च
।।७४।।