SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ।।७३॥ XXXXXXXXXXXXXXXXXXXXXXXXXX . मार्गे च गच्छन्त्यास्तस्याः स्तेनानां चौराणां राक्षसस्य च दर्शनं संजातम् । 'कहण'त्ति तयापि तेषां तस्य च S यथावद्वस्तूतत्त्वकथनं कृतम् । ततो 'मुयणं'इति चौरे राक्षसेन च तस्या मोचनमधिष्ठितम् । 'एवमालगारेण'त्ति मालाकारेणापि निवेदिते प्राच्यवृत्तान्त मुक्ता इत्यर्थः । तत अक्षता मालाकारेणाप्रतिस्खलिता स्फटिकोपलोज्ज्वलशीला राक्षसेनाभक्षिता चौरैरविलुप्ता च सती प्रत्यागता पत्युः पार्श्वे । ततः 'दुक्करम्मि पुच्छाइ नियभावो'त्ति केन तेषां मध्ये दुष्करमाचरितमिति पृच्छायां कृतायामभयकुमारेण, सर्वैः सामाजिकजनैनिजभावः स्वाभिप्रायः प्रकाशितः ॥२४॥ ईसालुगाइणाणं चोरग्गह पुच्छ विज्ज कहणाओ। दंडो तद्दाणासणभूमी पाणस्सऽपरिणामो ॥२५।। M ईर्ष्यालुकादीनां ईष्यालुकभक्षकचौराणां ज्ञानं संपन्नमभयकुमारमहामन्त्रिणः । ततश्चौरस्य ग्रहः । 'पुच्छ'त्ति पृष्टश्चा सावभयकुमारेण यथा भोः ! त्वया कथं बहिरवस्थितेनैव गृहीतान्याम्रफलानि ? तदनु 'विज्ज'त्ति विद्याप्रसादत इति निवेदितं पाणेन । अथ 'कहणाओ' अभयकुमारेण श्रेणिकाग्रतः पुनः कथना अस्य वृत्तांतस्य विहिता। ततः दण्डश्चण्डालस्य 'तहाण'त्ति तस्या एव विद्याया दानलक्षणः कृतः। प्रतिपन्नं च तत्तेन। प्रारब्धं च श्रेणिकाय विद्याप्रदानम् । 'आसणभूमी पाणस्स'त्ति आसनं भूमौ पाणस्य दत्तं, आत्मना तु सिंहासने निषण्णः । ततश्चापरिणामः सम्यगपरिणमनं विद्यायाः श्रेणिकस्य ।।२५।। रणो कोवो यं वितहं अभयविणउ त्ति पाणस्स । आसण भूमी राया परिणामो एवमण्णत्थ ॥२६॥ ततः राज्ञः कोपः प्रोद्भूतः, यथा-न त्वं करोषि मम सम्यग् विद्याप्रदानम् । ततः प्राह पाणः-नेदं वितथं KXXXXXXXXXXXXXXXXXXXXXXXXXX ॥७३॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy