________________
श्रो उपदे
शपदे
।। ३९६ ।।
'विस्मयनंदनपृच्छा' प्रथमता विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं ज्ञातमिति ? | गुरुर्जानाति, न पुनरावां किश्वनेति । कुत्र स महाभागस्तिष्ठति ? । उक्त च ताभ्यामुद्याने । तद्गमनं मूककगमनमुद्याने । तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ||३०६ ||२३||
तथावासनातो लोकेऽस्य नाम नापगतं तत्, ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक इति एतस्य विज्ञेयमिति ॥ ३०७ ॥ २४ ॥
सुरः - इतोऽपि भ्रातृजीवात् कुत्रस्थाने बाधि: ? जिन:- रम्ये वैताढ्यसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति | सुरः कथं केन विधिना पुनः ? जिन:- जातिस्मरणात् । सुरः -- तज्जातिस्मरणं कुत इति ? जिन :- कुण्डलयुगात् ||३०८ || २५ ॥
ततः कोशाम्ब्यागमा मूककसाधनं तीर्थकृत् कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो द्वयोरपि गमनं वैताढ्य कूटे सिद्धनाम्नि । कुण्डलस्थापना । तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं यस्मात् तत्तथा तञ्च तच्चिन्तारत्नं चेति ।।३०९ ||२६||
गमनं सुरस्य स्वस्थाने च्यवने सत्युत्पादश्च्यवनोपादः । आम्रष्वकालदोहदो जनन्याः समजनि । तदसम्प्राप्तो कृशता । ततः शंका मूकस्य विमर्शो जातः । किमयं स उत्पन्नोऽन्यो वेति । निश्चितं च तेन यथा सत्या एव जिना: । ततोऽसौ सुरजीवा गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तत्सिद्धिरकालदोहदसिद्धिः || ३१० ।। २७ ।।
संग्रह - गाथार्थः
||३९६॥