SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ॥ ३९५॥ सुरः - कुत्रासी भ्रातृजीव: ? । कौशाम्ब्याम् । सुर:- किनामा स ? जिन:- मूकस्तु तुशब्दस्य क्रमभेदेन याजनाद् द्वितीयेन तु नाम्ना मूककः प्रथमेनाशोकदन्त इति । सुर:-किमेतद् नामद्वयम् ? इत्येवमुक्तरूपेण ततो जिनेन पूर्वभवकथना कृतेति ।। ३०१ ।। १८ ।। यथात्र चास्यामेव कौशाम्ब्यां पुरि तापसश्रेष्ठी आरम्भयुक्तः सदैवासीत् । स मृतः सन् स्वकीये एव कोलः शूकरो बभूव । स्मरणं पूर्वजन्मनस्तस्य सम्पन्नम् । ततः सूपकार्या निहतो मारितः । कीदृशः सन्नित्याह- मार्जारीमन्युहतो बीराली रोषेण हतस्ताडितः सन् । ३०२ ।। १९ ।। 'तत्थोरग 'ति तत्र निजगृहे एव उरगः सप्र्पो जातः । 'सूयारीभय सरणं बोलघाइओ' इति यथायेाग्यं पदयोजनाजातिस्मरणमभूत् । सूपकार्या भयेन बोले कोलाहले कृते घातितो व्यापादितः सन् जातः निजपुत्रसुतः । स्मरणं तत्रापि प्राग्जातेः । ततो 'मूयव्वय कुमर चउणाणी' इति मूकवतं लज्जितेन कृतम् । ततः कुमारस्याकृतपरिणयनस्यैव सतश्चतुर्ज्ञानी मुनिः समवससारेति ||३०३।।२०।। तस्य च क्षेत्राभागे कृते ज्ञानमभूत्, यथा- समय एष एतस्य बोधिलाभे विधेये इत्यालोच्य साधुसंघाटकप्रेषणं विहितम् । तेन तद्वृत्तान्तगतः पाठः कृतः ॥ ३०४।।२१।। कथमित्याह - तापस ? किमनेन निरर्थकेन मौनव्रतेन, प्रतिपद्यस्व ज्ञात्वा धर्मं जिनप्रणीतम् । कुतो यतो मृत्वा 'सूय रोग 'त्ति सूकर उरगश्च जातस्तथा पुत्रस्य पुत्रस्त्वमसीति ।। ३०५॥२२॥ ॥ ३९५॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy