________________
श्रीउपदेशपदे
।।३७६ ।
सम्पन्नस्तथैव ज्वलनवदेव ॥२७६।।२।।
दहनसुरोततः किमित्याह-क्रियया एष आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणयाऽतिसन्धयते वञ्चयति इतरं दारणम् ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशंक्याह-मायया तृतीयकषायरूपया तद्गतया तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । एवं क्रियावञ्चनेन प्रायो बाहुल्येन कालः प्रव्रज्यापरिपालनरूपो व्रजति । 'सलेहणमोउ' इति पर्यन्ते च संलेखना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च । ततः सौधर्मदेवलोके ।।२७७।।३।। ___अभ्यन्तरपर्षदि पञ्चपल्यायुषौ महद्धिको देवी जातौ । अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति र आमलकल्पायां नगर्यामाम्रशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयोर्नाटयविधिविपर्ययो नृत्यक्रियाविपर्यासः सञ्जातस्तयोः ॥२७८।४।। ___कथमित्याह-एवं स्वीपुरुषादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषित| मेव तत्र तयोर्मध्ये भवति एकस्य ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-इतरस्य तु द्वितीयस्य पुनविपरीतं चिन्ति| तरूपप्रतिकूल भवति । ततो ज्ञायकपृच्छा जानतो गणधरस्य पृच्छा सम्पन्ना-कथमस्य भगवन् ! विपर्यासो जागते ? ।। ३७६।। इति ॥२७९॥५॥
भगवत्कथना भगवता प्रज्ञापितं, यथा-मायादोषो वंचनापराधोऽस्य क्रियागतस्तु क्रियागत एव प्राग्भवविहित एष इति विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशील: पुनः प्रायो बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन .