________________
||३५९||
चैव निवृतिसंपादिकैवेति ।।२५९।। ___ततोऽस्यां यदसौ करोति तदाह ;एयाए आलोचइ हियाहियाइमतिनिउणनीतीए । किच्चे य संपयट्टति पायं कज्जं च साहेति ॥२६०॥
एतस्यां भावाज्ञायां सत्यां आलोचयति जीवः । किमित्याह-हिताहितानि इहलोकपरलोकयोहितानि नीतिव्यवहारादिलक्षणानि, अहितानि च तद्विपरीतानि परद्रव्यापहारादीनि । कथमित्याह-अतिनिपुणनीत्यावज्रसूचेरप्यतितीक्ष्णयोहापोहयुक्त्या । तथा कृत्ये च कर्तव्येऽर्थे धर्मश्रवणादौ संप्रवर्त्तते सम्यक् चेष्टावान् भवति प्रायो बाहुल्येन । तथा, कार्य च धर्मार्थादिरूपं साधयति निवर्तयति प्राय एवावन्ध्यबुद्धित्वेन सफलचेष्टत्वात् ।।२६०।।
आह-किं कदाचिदन्यथाभावोऽपि स्याद् येनात्र प्रायोग्रहणं कृतमिति । उच्यते-सत्यमेवैतत , कदाचित् कस्यचित् | प्रतिबन्धसम्भवात् । तमेव दर्शयन्नाह ;पडिबंधो वि य एत्थं सोहणपंथम्मि संपयट्टस्स । कंटगजरमोहसमो विन्नेओ धीरपुरिसेहिं ।।२६१॥
प्रतिबन्धोऽपि च स्खलनारूप: किं पुनरप्रतिबन्ध इत्यपिचशब्दार्थः, अत्र भावाज्ञायां लब्धायां सत्यां तथाविधावश्यंवेद्यकर्मविपाकात् शोभनपथे सर्वसमीहितसिद्धिसम्पादकत्वेन सुन्दरे पथि पाटलिपुत्रकादिपुरसम्बन्धिनि सम्प्रवृत्तस्य * कस्यचित् पथिकस्य ये कण्टकज्वरमोहाः प्रतिबन्धहेतुत्वात् प्रतिबन्धा जघन्यमध्यमोत्कृष्टरूपास्तैः समस्तुल्यः कण्टकज्वर
मोहसमो विज्ञेयो धीरपुरुषः ॥२६॥
॥३५९॥