________________
।।३५७।।
गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते । यथासीनगरे क्वापि सूरिभिर्दुष्कृतास्पदे ॥१॥ गोविन्दा नाम निःशेषविद्वज्जनमदापहः । शाक्यभिक्षुर्महावादी दानवोद्ध रचेष्टितः ।।२॥ युग्मम् ॥ तत्राययौ विहारेण कदाचिन्मुनिभि वृतः । सिद्धान्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणः ।।३।। श्रीगुप्तनामकः सूरिभूरिभव्य जांशुमान् । साधुलोकोचितस्थाने तस्थौ स्थास्नुयशोभरः ॥४॥ ग्रहतारागणरिन्दुरुढ्योतितनभस्तलैः । यथा बभस्त्येष भृशं तथान्तेवासिभिनिजैः ।।५।। यथा सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीना: पद्मसद्मनि मानसे ॥६॥ तथा गुणज्ञस्तत्रत्यो जनः सम्मदसङ्गतः। तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः ॥७॥ शुश्राव च जिनरुक्तं धर्म कर्मक्षयावहम् । तेनोच्यमानमानन्दध्वानव्याप्तविहायसा ॥८॥ जातः प्रवादी नगरे श्रुतरत्नमहोदधिः । न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः ।।९।। यथा सप्तच्छदामोद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् ।।१०।। को नाम मयि पाण्डित्यमहासागरपारगे । विज़म्भमाणे लभतामिलायामुज्ज्वलं यशः ? ॥११॥ गर्वोद्ग्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् । सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् ॥१२॥ वाचोयुक्तिभिरूच्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः सूरिणा निस्फुरीकृतः ॥१३॥ विलक्षभावं भूयासं स सम्पनो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन ॥१४॥ तावन्न जीयते तस्मादपक्रम्य प्रदेशतः । दूरदेशांन्तरप्राप्ती सत्या सूर्यन्तरान्तिके ॥१५॥ समुत्पादितविश्वासो दिदीक्षे दक्षभावतः । लग्नः सिद्धान्तमध्योतुं परं सत्वरमानसः ।।१६।। विपर्यासाच्च नो सम्यक्तं बोद्ध पारयत्यसौ । कतिचिदिनात्यये जाते भूयः सम्भूय सौगतः ॥१७।। उपतस्थे तथैवासी
।।३५७॥