________________
श्रीउपदेशपदे
||३५६॥
किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैन्यत्कृता अपि ॥१४॥ वास्तव्यसाधुभिदृष्टो यथादृष्टं च साधितम् । सूरेविज-अंगारमईयसेनस्य तेनापि गदितं तत. ॥१५॥ स एष सूकरो भद्रास्त एते वरहस्तिनः । स्वप्ने च सूचिता ये वो न विधयो
काचार्यऽत्र संशयः ।।१६।। तैः प्रभातेऽथ तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुद्ध्यताम् ।।१७।। त्याज्यो वोऽयं यते। घोरसंसारतरूकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विजितः ॥१८॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽत्रैव च भारते ॥१९॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥२०।। अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीत्तित्वात् सर्वानेवं न्यमत्त्रयत् ॥२१॥ हस्तिनागपुरे राजा कनकध्वजसज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ।।२२।। तत्रायातः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्टत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥२३॥ गलावलम्बितस्थूलकुतुपो पेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥२४॥ तमुष्टमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः ।।२५।। देवजन्मोद्भवज्ञानज्ञातत्वासरसौ स्फुटम् । करभक: प्रत्यभि
॥३५६॥ ज्ञातो यथाऽयं बत नो गुरुः ।।२६।। ततस्ते चिन्तयामासुधिक् संसारस्य चेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ।।२७।। अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥२८।। ततस्तदेव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् प्रव्रज्यां प्रतिपेदिरे ॥२९।। ततः सुगतिसन्तानान्निर्वास्यन्त्यचिरादमी । इतरः पुनरभव्यत्वाद् भवारण्ये भ्रमिष्यति ॥३०।। इति ।।