________________
अङ्गारमद्दगो च्चिय आहरणं तत्थ पढमपक्खम्मि । गोविंदवायगो पुण बीए खलु होति णायव्वो ॥२५८।। ___अङ्गारमईक इहाज्ञाविचारपो आहरणं तयोर्द्वयोर्द्रव्यशब्दयोः प्रथमपोऽप्रधानार्थतालक्षणे । गोविन्दवाचकः पुन
द्वितीये प्रधानार्थतालक्षणे । खलु पूर्ववत् । भवति ज्ञातव्य उदाहरणतयेति ।। ||३५५॥
. इहाङ्गरकामई कोदाहरणमेनं वाच्यम् ;- सूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥१॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥२॥ कलभानां शतैः शूरैः सूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ।।३।। ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । (ग्रन्थाग्रन्थ ६०००)। सूरिरुवाच तस्यार्थं साधुनां पृच्छताममुम् ।।४।। सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्या नासाविति विनिश्चयः।।५।। यावज्जल्पत्यसौ तेषां साधूनामग्रतः कृती । रुद्रदेवाभिधः सूरिस्तावत्तत्र
समागतः ।।६।। शनेश्वर इव स्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत्कान्तकल्पवृक्षगणावृतः ।।७।। कृता च तस्य तैस्तूर्णम18 भ्युत्थानादिका क्रिया । आतिथेयी यथायोग्यं सगच्छस्य यथागमम् ।।८।। ततो विकलवेलाया कोलाकारस्य तस्य तैः । न
परीक्षणाय निक्षिप्ता अङ्गाराः कायिका भुवि ॥९॥ स्वकीयाचार्यनिर्देशात् प्रच्छन्नैश्च तक: स्थितैः । वास्तव्यसाधुभिदृष्टास्ते प्राघूर्णकसाधवः ॥१०॥ पादसंचूणिताङ्गारकुशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशङ्कया ॥११॥ कुशत्काररवस्थाने कृतचिह्ना इतीच्छया । दिने निभालयिष्यामः कुशत्कारः किमुद्भवः ? ॥१२॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । कुशत्काररवं कुर्वनगारपरिमई नात् ॥१३॥ जीवाश्रद्धानतो मूढोऽवदंश्चैतजिनः