SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ लौकिकरप्याज्ञाप्रामाण्यमेवाश्रितमिति दर्शयन् भीष्मवक्तव्यतामाह;अन्ने गपिंडो दब्भहत्थगाणातो दब्भदाणेणं । भीमं पियामहं खलु पाएणेवं चिय कहेंति ॥२५१॥ अन्ये-अपरे सूरयो भीष्मपितामहमेव कथयन्तीत्युत्तरेण योगः। स च किल कदाचिद् गयायां पुरि लोकप्रसिद्धायां ।।३५१॥ पितृपिण्डप्रदानार्थं जगाम । तत्र च तेन कृत्येषु जलाभिषेकाग्निकर्मादिषु पिण्डप्रदानोचितेषु कृतेषूपस्थापिते पिण्डदाने पितृभिरेको हस्तो दर्भाकुरकलिततया दर्भहस्तकः सर्वापरपिण्डप्रदातृसाधारणो वटाद् निःसार्य पिण्डग्रहणार्थं प्रगुणीकृतः । द्वितीयस्तु तदीयब्रह्मचर्यादिगुणावजितैस्तैरेव नानामणिखण्डमण्डितकनकचूडालंकृत इति । ततस्तेनेतरहस्तापहस्तितेन दर्भहस्तकाज्ञाया "दर्भहस्तके पिण्डः प्रदातव्यः" इत्येवंरूपायाः सकाशाद् दर्भदानेनेतिदर्भहस्ते यद्दानं पिण्डस्य विहितं तेनोपलक्षितं सन्तं भीष्म-सान्त्वनुसूनुं गाङ्गेयापरनामकं पितामहं-पाण्डवकौरवाणां पित्रोरपि पितृभूतं, खलु वाक्यालङ्कारे, प्रायो बाहुल्येन, एवमेव-भीमकुमारवदाज्ञाबहुमानवन्तं कथयन्तीति ॥२५१॥ अथ 'आणापरतंतेहिं ता बीयाहाणमेत्य कायब्वं' एतत् प्रपञ्च्य साम्प्रतं येषामिदमाज्ञापारतंत्र्यं न स्यात् तानाह;एवं च पारतंतं आणाए णो अभिन्नगंठीणं। पडिसोतोभिमुहाणवि पायमणाभागभावाओ ॥२५२॥ एवं च-भीमकुमारवत् पारतन्त्र्यं-परवशभावलक्षणमाज्ञाया नो-नैवाभिन्नग्रन्थीनाम्-अविदारितघनरागद्वेषमोहपरिलणामानां जीवानाम् । कीदृशानामपीत्याह-प्रतिस्रोतोऽभिमुखानामपि । इह द्विधा जीवनदीपरिणतिरूपं स्रोतः-संसार ।।३५ ॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy