SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ।। ३४९ ॥ एवाज्ञाभावितात्माऽपारसंसारपातभीतो निष्कलङ्कमब्रह्मविरतिव्रतं परिपालयन् दिनान्यनैषीत् । 'सक्कथुइ आणा' इति अथ कदाचिच्छक्रस्तदीयदृढव्रताभिप्रायमवेत्य सौधर्म्मसभायामुपविष्टस्त्रिविष्टपसदामग्रतः तस्य स्तुतिं श्लाघालक्षणां चकारयथैष भीमकुमारः संक्रन्दनसहायैः सुरैरपि जगञ्जनताचित्तचमत्कारकारणसौभाग्यादिगुणान्वितोऽपि ब्रह्मचर्यपरिपालनारूपायाः सर्वज्ञाज्ञायाश्चालयितुं न शक्यः, किं पुनमनिवादिभिर्वराकैः । 'देवायल्लगगणिया' इति । ततो देवेन 'आयल्लग' देशी भाषया मदनज्वरातुरशरीरा वेश्या विकुर्व्य दर्शिता । भणितव तेजननीरूपधारिणा तेन ममात्यन्तवल्लभेयं सुता त्वया असंपाद्यमानसमीहितसिद्धिरितिकष्टकालदशां प्राप्ता नियतं व्यापद्यते । निष्कृप ! स्त्रीहत्योपेक्षकत्वेन हे निर्दय ! अधर्मस्तथाविधानानुष्ठानेनाप्यसाध्यसिद्धिः सम्पत्स्यत इति ॥ २४८ || ४ | एवमुक्तस्यास्य व्याघ्रदुस्तटीन्यायमाकलय्य आज्ञाबहुमानकरणाद् यदभूत् तदाह - 'आणाभावणजागा' इति आज्ञायास्तीर्थकृद्वचसो भावनाऽऽलोचना, यथा- " अपकारपरा एव येोषितः केन निर्मिताः । नरकागाधकूपस्य, समाः सोपानपंक्तयः ? ॥१॥ दोषाणां राशयो ह्येताः, पराभूतेः परं पदम् । मोक्षाध्वध्वंसकारिण्यः, प्रत्यक्षा नूनमापद ॥२॥ एता इसन्ति च रुदन्ति च कार्यहेतेाविश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वज्र्जनीयाः ||३|| सल्लं कामा विसं कामा, कामा आसिविसोवमा । कामे पत्थमाणा, अकामा जति दुग्गई ||४|| " इत्यादि, ततस्तया आज्ञाभावनया योगः- सम्बन्धस्तस्मात् सकाशात् किमित्याह - रागाभावः - अभिष्वङ्गनाशोऽस्य धीरस्य वर्त्तते । तथा; आज्ञाबहुमानादेवैवं विचारितवानसौ, यथा- 'वयभंसपाव' त्ति व्रतभ्रंशे ३४९ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy