SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ३४८। एवं प्रतिवासरमपूर्वापूर्वपवित्रपरिणामपरंपरामधिरोहतः सतो भीमस्य याति कालः । 'वणिकन्नरायराय'त्ति वणिजः आज्ञाबहुसागरदत्तनामधेयस्य कन्या चन्द्रलेखाभिधाना शृङ्गारक्षीरनीरधिलहरी सुभगलावण्योपहस्तितामरसुन्दरीका हर्म्यतलगता मानेभीम कु० उदा० काञ्चनकन्दुकक्रीडारसमनुभवन्ती वातायनस्थितस्य राज्ञो रतिसारस्य लोचनमार्गमागता । ततस्तदीयराजहंसानुसारिसलीलगमनादिगुणाक्षिातमानसोऽसौ तद्गोचरे रागे अभिष्वंगलक्षणो सम्पन्ने सति दारुणां मदनावस्थामाससाद । तदवस्थं च तं समुपलभ्याऽवोचद मन्त्री-देव ? किमिदमकाण्ड एव युष्मच्छरीरस्यापाटवम् ?, तेनापि नास्य गोप्यमग्तीति परिभाव्य निवेदितं निज'वरूपं, ततो मन्त्री सागरदत्तगृहं गत्वा वरणं चन्द्रलेखायाः कर्तुमारब्धः । सागरदत्तेन चोक्त 'नो पुत्तरज्ज' ति ना-नैवाहं राज्ञे स्वपुत्रीं प्रयच्छामि, यतस्तस्य भीमनामा राज्याहः पुत्रोऽस्ति स राजा भविष्यति न मत्पुत्रीपुत्र इति । ततो ज्ञातवृत्तान्तेन भीमेनोक्तम्-'न करेमि' त्ति नाहं राज्यं करोमीति देहि राजे कन्याम्। ततः पुनरपि वणिजोक्त-यदि त्वं पितुरप्रियं परिजिहीर्षुर्न करिष्यसि राज्यं, तथापि तव पुत्रो विधास्यतीति । एवं निबिडनिबन्धं वणिज ज्ञात्वा भूयोऽपि भीमो जगाद-यद्य वं त्वं निपुणदर्शी तर्हि 'न परिणेमि'त्ति नाहं परिणेष्यामि ||३४८।। काञ्चित् कुलबालिकाम् । अतो नास्त्येव मत्पुत्रसम्भव इति प्रतिज्ञाय कालेन व्रजता ब्रह्मचारी भीमकुमारः समजनि । इतिः परिसमाप्त्यर्थः ।।२४७।।३।। एवं सम्पूर्णमनोरथेन वणिजा राज्ञे दत्ता चन्द्रलेखा । परिणीता च प्रशस्त वासरे प्रचुरद्रविणव्ययेन । तया च समं विषयशर्मानुभवतस्तस्य पुत्रः समभूत् । कृतश्च समुचितसमये स राजा । "भिमोगिहबंभ'त्ति भीमोऽपि गृहस्थित
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy