________________
श्रीउपदे
शपदे
।। ३४६ ।।
ब्राह्मणविभववितरण - पर्वदिवसेापवास - तीर्थस्नानप्रभृतयो धर्मक्रियाविशेषास्तेषु यथा निरनुबन्धं फलं, तथा, हन्तेति कोमलामंत्रणे, एतदपि क्रियामात्रजन्यं पुण्यमिति ॥ २४२ ॥
तम्हा भावो सुद्धो सव्वपयत्तेण हंदि परलोए । कायव्वो बुद्धिमया आणोवगजोगतो णिञ्च ॥ २४३॥
यस्मादेवं क्रियामात्रं निरनुबन्धफलं तस्माद् - भावो - मनः परिणामः शुद्धो - रागद्वेषमोहमलविकलः सर्वप्रयत्नेन - सर्वस्वसामर्थ्यागोपनरूपेण; हंदीत्युपप्रदर्शने, परलोके - स्वग्र्गापवर्गादिलक्षणे साध्ये कर्त्तव्यो - घटयितव्यो बुद्धिमता - प्रशस्तमना पुरुषेण । कथमित्याह - ' आज्ञोपगयोगतो' आज्ञामुपगच्छन्ति - अनुवर्त्तन्ते ये ते आज्ञोपगास्ते च ते योगाश्च - अनुष्ठानभेदाः तेभ्यो, जिनाज्ञानुसारिणो धर्मारम्भान् प्रतीत्येत्यर्थः, नित्यम् - अहर्निशमिति ॥ २४३ ॥
सम्प्रत्याज्ञामेव पुरस्कुर्वन् दृष्टान्तमाह; -
जा आणं बहु मन्नति सो तित्थयरं गुरु च धम्मं च । साहेति य हियमत्थं एत्थं भीमेण दिट्ठ तो ॥ २४४ ॥ ।
यो जन्तुरासन्नभव्य आज्ञाम् - उक्तरूपां बहु मन्यते - पुरस्करोति स - आज्ञा बहुमन्ता तीर्थकरम - अर्हन्तं गुरु ं च धर्माचार्यं धर्मं श्रुतचारित्ररूपं बहु मन्यते, आज्ञाबहुमानस्य तीर्थकरादिबहुमानाविनाभूतत्वात् । साधयति, घटयति, चः समुच्चये, हितं-कल्याणरूपमर्थं - पुरुषार्थलक्षणम् । अत्र - अस्मिन्नाज्ञा बहुमाने भीमेन राजसूनुना दृष्टान्तः - उदाहरणं
वाच्यम् ।।२४४ ॥
एनमेव भावयति ; -
आज्ञाबहुमानेभोम
कु० उदा०
।। ३४६ ।