________________
एतस्याः पुनः-सुक्रियायाः सकाशाद् विशिष्टम्-अपरक्रियाजन्यपुण्य विलक्षणम् । कत एवाह-सुवर्णघटतुल्यं-शातकुम्भकुम्भसन्निभमिह-जगति फलं-पुण्यलक्षणं नवरं-केवलं जायते अनुबन्धयुतम्-उत्तरोत्तरानुगमरूपवत् । कुत इत्याह 'सम्पूर्णहेतुतः' सम्पूर्णेभ्यो हेतुभ्यो भावाद्, हेतवश्चास्य प्राणीकरुणादयः । यथोक्तम्-“दया भूतेषु संवेगो, विधिवद् गुरुपूजनमम् । विशुद्धा शीलवृद्धिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥१॥" सम्यग्-यथावद् अवसेयमिदम् । न हि पूर्णकारणारब्धा भावाः कदाचिद् निरनुबन्धा भवितुमर्हन्ति, अन्यथा तत्तयाऽनुपपत्तेः ॥२४०।।
ननु क्रियामात्रमप्याज्ञाबहुमानशून्यानां कथं ज्ञायते ? इत्याशंक्याह ;किरियामेत्तं तु इहं जायति लद्धादवेक्खयाएऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसि ।।२४१।।
क्रियामात्रं पुनरुक्तरूपमिह-दूरभव्येष्वभव्येषु च जायते लब्ध्यापेक्षयापि, इह लब्धि स्वपात्रकीर्त्यादिलाभलक्षणा गृह्यते, आदिशब्दात् स्वजनाद्यविरोधकुललज्जादिग्रहः, तान्यप्यपेक्ष्य स्यात् । गुरुलाघवादिसंज्ञानवजित गुणदोषयोः । प्रवृत्तौ गुरुलाघवमादिशब्दात् सत्त्वादिषु मैत्र्यादिभावग्रहस्तेषु यत्संज्ञानं शुद्धसंवेदनरूपं तेन विनिर्मुक्तं, प्रायो-बाहुल्येनेतरेषां-शुद्धाज्ञाबहुमानविहीनानामिति ।।२४१।।
एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयंपि ॥२४२॥
इतस्तु-क्रियामात्रात् पुननिरनुबन्धम्-उत्तरोत्तरानुबन्धशून्यम्, अत एव 'मिम्मयघडसरिसमो' इति मृत्तिकामयघटसदृशं फलं पुण्यबन्धलक्षणं ज्ञेयम् । पुनरपि दृष्टान्तान्तरेण भावयति-कुलटाया-दुश्वारिण्याः स्त्रिया द्विजदानादयो