________________
श्रोउपदेशपदे
स्वरूपम.
11३४४॥
**XXXXXXXXXX*****
आज्ञाबहुमानाद्-वचनपक्षपाताच्छुद्धात्-कुग्रहादिदोषरहितात्, इह-पैयावृत्त्यादिकृत्येषु फलं विशिष्टं-पुण्यानुबन्धिपु-वयावृत्यण्यरूपं निरनुबन्धाशुभकर्मरूपं च सम्पद्यत इति । न पुनः क्रियामात्राद्-मन्त्रविजितसर्पदष्टापमार्जनक्रियाकल्पात् साधुसमाचारासेवनादेः केवलाद् विशिष्ट फलमस्ति । एतदेव दृढीकूर्वन्नाह-पूर्वाचार्यास्तथा च तथैव यथोच्यतेऽस्माभिस्तथाहः -ब्रुवते ।।२३८॥
यदाहुस्तदेव गाथाद्वयेन दर्शयति ;भावाणाबहुमाणॉओ सत्तिओ सुकिरियापवित्तीवि । नियमेणं चिय इहरा ण तको सुद्धोत्ति इट्ठा सा ॥२३९॥
भावाद्-अन्तःपरिमाणाद् य आज्ञाबहुमानः-उक्तरूपः तस्मात् कथंचिजातात् । किमित्याह-शक्तितः-स्वसामर्थ्या. नुरूपं 'सुक्रियाप्रवृत्तिरपि'-सुक्रिययां-मार्गानुसारसारायां दर्शनाप्रभावनादिकायां चित्ररूपायां प्रवृत्तिः-उत्साहरूपा भवतीति, भावाज्ञाबहुमानस्तावत् सम्पन्न एवेत्यपिशब्दार्थः, नियमेनैव, शुद्धभावाज्ञाबहुमानस्य तथाविधमेघोन्नतेरिव जलवृष्टिक्रिया (या: सुक्रिया) या व्यभिचाराभावात् । विपक्षे बाधकमाह-ईतरथा सुक्रियायाः प्रवृत्तिनिरोधेन नैव तको-भावाज्ञा-बहुमानरूपः शुद्धो वर्तते, स्वकार्यसाधकस्यौव कारणस्य निश्चयतः कारणभावात् । इत्यस्मात् कारणाच्छुद्धभावाज्ञाबहुमाने इष्टा सा सुक्रिया ॥२३९।।
ततोऽपि किमित्याह;एईए 3 विसिटुं सुवन्नघडतुल्लमिह फलं नवरं । अणुबंधजुयं संपुन्नहेउओ सम्ममवसेयं ॥२४०।।
||४४।।
*