________________
।। ३४३ ।।
अन्यः पुनः–वैयावृत्त्यरुचिरेव धार्मिकविशेषो बहुमतिः किमिदं - वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथमतो मीमांसते, अज्ञातस्य तु कर्त्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, कथं वा–क्रेन वा प्रकारेण गुरुबालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयेागेन शक्त्या - स्वसामर्थ्यारूपं तथा प्रवर्त्तते प्रस्तुत एव वैयावृत्ये यथा साधयति बहुकमेतत्तु - इदमेव वैयावृत्त्यं शक्त रत्रोटनेन प्रतिदिनं वृद्धि - भावादिति भावः ॥ २३६||
अत एव पौर्वापर्यशुद्धां वैयावृत्त्यविषयामाज्ञां दर्शयति ;
पुरिसं तस्सुवयारं अवयारं वऽप्पणो य णाऊणं । कुज्जा वेयावडियं आणं काउं निराससा ।। २३७।।
पुरुषम् - आचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकलक्षणपदस्थ पुरुषपञ्चवकरूपं ग्लानादिरूपं च तथा तस्य - पुरुषस्योपकारम् - उपष्टम्भं ज्ञानादिवृद्धिलक्षणम्, अपकारं च - तथाविधावस्थावैगुण्यात् श्लेष्मादिप्रकोपलक्षणम्, तथाऽऽत्मनश्च - स्वस्यापि शुद्धसमाधिलाभरूपमुपकारमपकारं च शेषावश्यककृत्यान्तरह निस्वभावं वा ज्ञात्वा सूक्ष्माभागपूर्वकं कुर्याद्विदध्यात् । वैयावृत्यम् - उक्तरूपमाज्ञां कृत्वा - सर्वज्ञोपदेशोऽयमिति मनसि व्यवस्थाप्य निराशंस - कीर्त्यादिफलाभिलाषविकलः सन्निति ॥ २३७॥
न च वक्तव्यं क्रियात एव फलसिद्धिर्भविष्यतीति किं पुनः पुनराज्ञोद्घोषणेनेत्याह ; -
आणबहुमाणाओ सुद्धाओ इह फलं विसिद्वंति । ण तु किरियामेत्ताओ पुव्वायरिया तहा चाहु ॥२३८ ।।
३४३॥