________________
HAL
श्रीउपदेशपदे
।।३४२॥
तत्-तस्मादेतस्मिन्-धर्मबीजे प्रयत्ना-यत्नातिशयः कर्तव्यो धीररित्युत्तरेण योग: । किलक्षणः प्रयत्नः कर्त्तव्य धर्मबीजइत्याशंक्याह-ओघेन-सामान्येन वीतरागवचने-वीतरागागमप्रतिपादिते पुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तत्त
प्राप्तिकरचित्तशुद्धसमाचारे बहुमाना भावप्रतिबन्धः क्षयोपशदवैचित्र्याद् मृदुमध्याधिमात्रः कर्त्तव्या धीर:-बुद्धिमद्भिः । उप
Oणोपायः संहरन्नाह-कृतं प्रसंङ्गेन-पर्याप्तं धर्मबीजप्रख्यापनेनेति ।।२३४॥ __अथाज्ञापूर्वकप्रवृत्तावपि प्राप्रपञ्चितबुद्धिपरिणतिरूपा मीमांसव कार्यसाधिकेति प्रपञ्चयितुमिच्छराह;| वेयावच्च न पडति अणुबंधेल्लंति सहरिसं एक्को । एत्तो एत्थ पयति धणियं णिय सत्तिनिरवेक्खां ।।२३५।।
वैयावृत्त्यम्-अन्नपानौषधभैषजदानादिना पादधावनशरीरसंवाहनशयनासनरचनादिना साधुजनोपकारिणा चित्ररूपेण क्रियाविशेषेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुबंधेण्ण' ति अनुबन्धोऽनुगमोऽव्यवच्छेद इत्येकोऽर्थस्तदस्यास्तीत्युबन्धवत्, तथा चोक्तम्-“पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न उ वेयावच्चकयं सुहोदयं नासए कम्मं ॥१॥" इत्यस्मात् कारणात् सहर्ष-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो | वैयावत्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम् । इदमेव व्याचष्टे-निजशक्तिनिरपेक्षं स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीव्रबुभुक्षः स्वजठरानलबल्लोल्लङ्घनेन
॥३४२।। भुञ्जानो न कञ्चन गुणमवाप्नोति, किन्त्वग्निमान्द्यापादनेन दोषमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या ।।२३५।। ।
इत्थमल्पमतिविषयं वैयावृत्त्यमभिधाय, अधुना तद्विपर्ययेणाभिधातुमाह;अन्नो उ कि इमं भन्नतित्ति वयणाओ कह व कायव्वं । सतीए तह पयट्टति जह साहति बहुगमेयं तु ।।२३६॥