SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 11३३९।। अथ गाथाक्षरार्थः;-'कोसंबि'त्ति कौशांब्यां पुरि 'सेविसुय'त्ति श्रेष्ठिनोः सुतौ गाढप्रीतौ परस्परं प्रायेण-बहून् वारान 'तुल्लफलसिद्धी' व्यवहारप्रवृत्ती समानफललाभौ च प्रवर्तते । अन्यदा च 'वीरोसरणे' इति वीरसमवसरणे श्रवणं-धर्मसमाकर्णनमभूत् । तयोर्बोध्यभावयोश्च-बोधावभावे च सति विशेषः संवृत्तः ।।१२७॥१॥ तमेव दर्शयति-'हरिसो मज्झत्थत्तं' इत्यादि, हर्षः सन्तोष एकस्य धर्मपालजीवस्य, मध्यस्थत्वम् -उदासीनत्वमन्यस्य परस्परम -अन्योऽन्यस्य चित्तज्ञानमभूत् । ततो भेदश्चित्तस्य संवत्तः ततः 'पुच्छा अबोहि'त्ति अबोधिगोचरा पृच्छा कृता ज्येष्ठेन भगवतः पार्श्वे । 'नेहे बहुजोगों' इति भगवान् ! स्नेहे सत्यावयोर्बहुः प्रभूतो योगः सदा व्यवहारकारणादिसम्बन्ध एकचित्तयोरभूत् । ततः बीज-मुक्तिकल्पतरोः सम्यक्त्वं तद्यस्य नास्ति सोऽबीजकः कथं केन हेतुनैष मत्सखा सम्पन्नः ? न वितर्के इति ।।२२८॥२॥ ____ 'दंगियपुत्ता' इत्यादि । ततो भगवता प्राच्यवृत्तान्तः कथयितुमारब्धस्तयाः, यथा-द्रङ्गिकपुत्री, द्रङ्गो नाम गोधनबहुलः सन्निवेशविशेषः सोऽस्यास्तीति ङ्गिको-ग्राममहत्तरकस्तत्सुतौ युवां भूतवन्तौ । 'गोहरण'त्ति कदाचिद् भवद्भ्यां गवां हरणे कृते सति, दण्डपाशिकः 'पच्छ खेडणग'त्ति पश्चात्-पृष्ठतः-खेटनक-त्रासनमारब्धम् । ततः पलायमानाभ्यां भवद्भ्यां शैलगुहायां साधुरेको दृष्टः । तत्र धर्मप्रशंसाप्रद्वेषौ-भवतोः प्रवृत्तौ। ततो 'बीयाबीय'त्ति बीजमबीजं च द्वयोरपि यथाक्रम सम्पन्नमिति ॥२२९।। ३॥ अथ पूर्वोक्तमुदाहरणं निगमयन् बीजशुद्धि दर्शयति ; ॥३३९॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy