________________
श्रीउपदेशपदे
II यह
।।३३८।
आस्तां युवां क्वचिद्ग्रामे, द्रङ्गिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं लावण्यपदमागतौ ॥२२॥ संजा- श्रेष्टिपुत्रद्वततद्विकारौ च, जातौ भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥२३॥ अनार्यकार्यमारब्धौ, कर्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥२४॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितो ) ततः । प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥२५॥ ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥२६॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसद्मनः । यदित्थ निर्भय: शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥२७।। वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं गताः ॥२८॥ धिक्कारोपहतात्मानो, यास्यामः कां गति मृताः ? । ही जाता दुःखभावेन, लोकद्वयविराधकाः ।।२९।। तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः? ॥३०।। अन्यः पुनरुदासीनः, समभूत्तं मुनि प्रति । गुणरागादवापैको वोधिबीजं न चापरः ।।३१।। ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् ।।३२।। मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारी, वणिग्धर्मपरायणौ ॥३३॥ एकस्येह तदेतस्य, जातं बीजस्य तत्फलम् । सद्बोधरूपमन्यस्य, निर्बीजत्वेन नाभवत् ॥३४॥ एवं पूर्वभवासेवां, जिनेनोक्ता सविस्तराम । निशम्यकस्य सञ्जातं, जातेः संस्मरणं क्षणात् ।।३५।। ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥३६।। तत्प्रतिपत्तिसामर्थ्याच्छभकर्मानुबन्धतः । सिद्धि यास्यत्यसौ काले परः संसारमेव हि ।।३७।।