________________
।।३३७।।
रोचते च यदेकस्य, तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेचित्ताविमाविति || ६ || ततः कुलोचितं कर्म, कुर्वतोर्यान्ति वासराः। अन्यदा भुवनानन्दी, प्राप्तस्तत्र जिनेश्वरः ||७|| भगवान् श्रीमहावीर - इक्ष्वाकुकुलनन्दनः । गीर्जलैर्जनसन्तापशमनेऽम्भादसन्निभः || ८ || विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम् । तत्रासौ धर्ममाचख्यो, ससुरासुरपर्षदि ॥ ९ ॥ तमागतं समाकर्ण्य, कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् ॥१०॥ तावपि श्रेष्ठिनोः सूनू, कुतूहलपरायणौ । जनेन सार्द्ध मायातो जिननायकसन्निधौ ॥ ११॥ जिनस्तु देशयामास, मोक्षमार्गं सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ॥ १२ ॥ । ततस्तयोर्वणिक्सुन्वोरेकस्य तञ्जिनादितम् । श्रद्धानमार्गमायाति भाव्यते च स मानसे ||१३|| स्काराक्षो मस्तकं धुन्वन्, कर्णपर्णपुटाप्पितम् । रोमाञ्चित. पिबत्युच्चैजिनवाक्यं यथाऽमृतम् ॥ १४ ॥ तदन्यस्य तदाभाति, वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भाव, लक्षयामासतुस्तराम् ।।१५।। व्याख्याभुवः समुत्थाय जग्मतुर्भुवनं निजम् । तत्रैको व्याजहारंवं भ्रातरत्वं भावितः किल ।। १६ ।। जिनवाचा न चाहं भास्तदत्र किमु कारणम् । एकचित्ततया रूपातावावां लोके इयच्चिरम् । १७।। इदानीमत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ॥ १८ ॥ सत्यमेवं ममाप्यत्रविकल्पः संप्रवर्त्तते । केवलं केवली नूनं निश्चयं नौ करिष्यति ।। १९ ।। स एव प्रश्नितोऽत्रार्थे तद्यातास्वस्तदन्तिके । एवं तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके ।। २० ।। पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरकेन, श्लाघितौ युवयोर्मुनिः ||२१|| तथाहि
। ३३७।